एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० लघुपाणिनीये [अङ्-संस्करणम् एषु गुहवर्जितानामादादिकत्वाल्लाङ शपो लुकि क्सय च लुकि तुल्य- मेव रूपम् । गुहस्त्वन्यत्रान्यो विशेषः— - ७१७ । ऊदुपधाया गोहः । (६-४-८९) STOL गोह इति कृतगुणस्य निर्देश: । गुहधातोर्गुणनिमित्ते अजादौ प्रत्यये तद्पवाद ऊकारादेशः । शब्विकरणोऽयं धातुः गुहू इत्यूदिच्च । यथा- गूहति, अगूहत् । अजादावित्युक्तेस्तासि गोढा, इट्पक्ष त्वजादित्वात् गूहिता । एवं गूहिष्यति घोक्ष्यति इत्यादि। - FIFTIO अङ् संस्करणम् ॥ ‘अस्यतिवक्तिख्यातिभ्योऽङ्' (४५९) इत्यादिभिश्चतुर्भिः सूत्रैः अविहितः । ‘लिपिसिचिह्नश्च' (४६०) इत्यस्मादनन्तरम् ७१८ । आत्मनेपदेष्वन्यतरस्याम् । (३-१-५४) इति लिपिसिचिह्वेनाम् तङि विकल्पः, 30 ७१९ । सर्तिशास्त्यर्तिभ्यश्च । (३-१५६) , इति परस्मैपदेषु नित्यविधिश्च तत्र विशेषविधिरित्युपेक्षितावत्रोपक्षिप्येते । अत्र अस्यतिवक्तिख्यातिभ्यो नित्यं, लिपिसिचिह्वेभ्यो वा चैवात्मनेपदे- ष्वङ् । अन्येभ्यस्तु परस्मैपदेष्वेवेति विवेकः । 'वक्ति' इत्यनेन ‘वच परिभाषणे' इत्ययं ‘ब्रुवो वचि'-रादेशश्च गृह्येते । तथा 'ख्या प्रकथने इत्ययं 'चक्षिङः ख्याञ्' च 'ख्याति' इत्यनेन । पुषादि: दिवादे- रन्तर्गणः, द्युतादिर्भूवादेः । लदितस्तु 'गम्ल गतौ, शक्ल शक्तौ, मुल मोक्षणे' इत्यादयस्तत्र तत्र विक्षिप्ताः । इरितोऽप्येवमेव || अथ केचन धातव उपलक्षणार्थमुदाहियन्ते – पुष - अपुषत् अपुषताम् - अपुषन् । अपुषः अपुषतम् अपुषत । अपुषम् अपुषाव अपुषाम । द्युत - अद्युतत् अद्युतताम् अद्युतन् । रुच- अरुचत् अरुचताम् अरुचन् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२४९&oldid=347618" इत्यस्माद् प्रतिप्राप्तम्