एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अङ्-संस्करणम् ] रुचद्युतोरात्मनेपदित्वेऽपि पदपक्षे—अरोचिष्ट, इत्यादीनि रूपाणि ॥ परिनिष्ठाकाण्ड: । २३१ 'युद्भ्यो लुङि' इति वा परस्मैपदम् । आत्मने- अरोचिषाताम् । अद्योतिष्ट, अद्योतिषाताम्- गम्ल- अगमत् अगमताम् अगमन् । शक्ल-अशकत् अशकताम् अशकन् अङभावे सिचि अरौत्सीत् अरौद्धाम् । अरुद्ध अरुत्साताम् । अभैत्सीत् अभैत्ताम् अभैत्सुः इति च रूपाणि । शास–‘शास इदङ्हलो:' (५८३) अशिषत् अशिषताम् । ख्या- - अख्यत् अख्यत रुधिर्-अरुघत् अरुधताम् अरुधन् । भिदिर्-अभिदत् अभिदताम् अभिदन् । ७२० । आतो लोप इटि च । (६-४-६४) अचि क्ङित्यार्धधातुके इति पदत्रयमनुवर्तते । आकारस्य लोपः स्यात् अजादौ किङत्यार्धधातुके इटि च । इत्याकारलोप:- अख्यताम् अख्यन् । अख्यः इत्यादि । अख्येताम् अख्यन्त । अख्यथाः 23 अनन्तरमङि विशेषविधयः- D - ७२१ । ऋदृशोऽङि गुणः । (७-४-१६) ऋवर्णान्तानां दृशेश्चाङि गुणः । यथा – अदर्शत्, अदर्शताम्, अदर्शन् । - ऋवर्णान्तादङ् च्छन्दस्येवास्ति । ७२२ । अस्यतेस्थुक् । (७-४-१७) अङि थुगागमः। आस्थत् आस्थताम् आस्थन् । पर्यास्थत । ७२३ । श्वयतेरः । (७-४-१८) श्वि इत्यस्य अकारोऽन्तादेशः । अश्वत् अश्वताम् । ७२४ । पतः पुम् । (७-४.१९) पुम् आगमोऽङि । अपप्तत् अपप्तताम् अपप्तन् । - ७२५ । वच उम् । (७-४-२०) उमागमोऽङि। अवोचत्, अवोचत ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२५०&oldid=347619" इत्यस्माद् प्रतिप्राप्तम्