एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ लघुपाणिनीये णौ ७३० । तिष्ठतेरित् । (७-४ ५) चङ्युपधाया इत् । स्था – स्थापि - अतिष्ठिपत् । ७३१ । जिघ्रतेर्वा । (७-४-६) जिघ्रतेरिद्रा | घ्रा – घ्रापि- अजिघ्रिपत्, अजिघ्रपत् । ७३२ । उर्ऋत् । (७-४-७) णौ चङचुपधाया ऋवर्णस्य ऋकारादेशो वा । ‘ऋत इद्धातो: उपधायां च' इति इदादेशस्य, लघूपधगुणस्य मृजेर्वृद्धेश्चायमपवादः । अत उच्यते इररारामपवाद इति । यथा- अचिकीर्तत्, अववर्तत्, इर् - कृत अर् वृत - कीर्ति वर्ति - - आर्— मृज - मार्जि– अममार्जत, -1 - - [लिट् अचीकृतत् । अवीवृतत् । अमीमृजत् । लिट् ॥ अयमार्धधातुको लकारः । नास्त्यत्र ततो विकरणम् । नापि संस्करणं विध्यभावात् । अत्र 'परस्मैपदानां णलतुसुस्थलथुसणल्वमाः ' (४७४) 'लिटस्तझयोरेशिरेच्' (४७३) इत्यादेशा: । ‘लिटि धातोरन- भ्यासस्य' (६०२) इति द्वित्वमभ्यासकार्यसंवलितम् । 'असंयोगालिट् कित्' (६८७) इति कित्त्वम् | तन्निमित्तक: 'आतो लोप इटि च (७२०) इत्याल्लोप:, 'वचिस्वपि ' (५१५) इति संप्रसारणं, गुण- निषेधश्च, क्रादिनियमात् (६६३) कृता इव्यवस्था इत्यादयोऽन्ये विशेषविधयश्चानुसंधेयाः ॥ १ कृञ् करणे -द्वित्वम्, अभ्यास - ऋकारस्य अत्वं, कोश्चुत्वं च, 'अचो णिति' (२८२) इति वृद्धिः, चकार । द्विबहुवचनयो: पित्त्वाभावेन कित्त्वात् गुणप्रतिषेधे सन्धिकार्यम् । यण्, चक्रतुः चक्रुः । 'कृसृभृ.. इण्निषेध, चकर्थ चक्रथुः चक्र | (६६३) इति सर्वत्र

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२५३&oldid=347622" इत्यस्माद् प्रतिप्राप्तम्