एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लिट् ] परिनिष्ठाकाण्डः । २३७ अत्र ज्ञापकः । अतोऽत्र रूपभेदकारी प्रतिनिधिरेव आदेशशब्देन गृह्यते । एवं च घोष- अतिखर- कवर्ग- हकारादयो धातवः अनादेशादेरिति पदस्य व्यावर्त्याः । ‘धात्वादेः षः सः' ‘णो नः' इत्येतौ प्रयोजनान्तर- मुद्दिश्य कृतावादेशौ च नात्र गृह्येते । लिट्प्रयोज्य आदेश एवात्रादेश इति फलितम् । असंयुक्तहलोर्मध्ये स्थितस्य अनादेशादेरकारस्य एत्व- मभ्यासलोपश्च किति लिटि । यथा- 20 - पच-पेचतुः पेचुः । पेचे पेचाते पेचिरे । मेन मेनाते मेनिरे । तन- - तेनतुः तेनुः । तेने तेनाते तेनिरे । । रक्ष – ररक्षतुः ररक्षुः । श्रम — शश्रमतुः शश्रमुः । प्रत्यु॰—–('एकहल्मध्ये ' किम् ?) { (‘अनादेशादेः’ किम्?) खन – चख्नतुः - - रण – रेणतुः रेणुः । मन– चख्नुः (चर्त्वम्) । ७४० । थलि च सेटि । (६-४-१२१) थलः कित्त्वाभावादप्राप्ते वचनम् । सेटि थलि च एकहल्मध्यस्थ- स्यानादेशादेरत एदभ्यासलोपश्च । यथा - — पच – पेचिथ पपथ । रण – रेणिथ । तन – तेनिथ । - तृ - ततार तेरतुः तेरुः । तेरिथ । फेलिथ | भज-बभाज भेजतुः भेजुः । पाते त्रेपिरे । - जेपिथ । जप- ७४१ । हृफलभजत्रपश्च । (६-४-१२२) । एषामप्यत एतू, अभ्यासलोपश्च किति लिटि, सेटि थलि च । तृधातोरकारस्य गुणनिष्पन्नत्वात्, फलभजोरादेशादित्वात्, त्रपतेः सं- योगादित्वाञ्च निषेधः प्राप्तः । यथा - - फल-पफाल फेलतुः फेलुः । भेजिथ । भेजे । त्रप - त्रेपे - ७४२ । राधो हिंसायाम् । (६-४-१२३) हिंसार्थकस्य राधधातोरवर्णस्य एत्वमभ्यासलोपश्च किति लिटि सेटि थलि च राध-अपरराध अपरेधतुः अपरेधुः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२५६&oldid=347625" इत्यस्माद् प्रतिप्राप्तम्