एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ लघुपाणिनीये ७४३ । वा जृ-भ्रमु-त्रसाम् । (६-४-१२४) एषाम् अत एदभ्यासलोपश्च वा किति लिटि सेटि थलि च । यथा --- जजार जेरतुः जजरतुः जेरुः जजरुः । जेरिथ जजरिथ । बभ्राम भ्रमतुः बभ्रमतुः भ्रमुः बभ्रमुः। भ्रेमिथ तत्नास वेसतुः तत्रसतुः त्रेसुः तत्रसुः । बभ्रमिथ । त्रेसिथ तत्रसिथ । AN ७४४ । फणां च सप्तानाम् । (६-४-१२५) एषामप्यवर्णस्य एदभ्यासलोपश्च वा उक्तनिमित्ते । यथा— फण – पफाण फेणतुः फेणुः । फेणिथ | राज - रराज रेजतुः रेजुः । रेजे। पक्षे--पफणतुः, रराजतुः, रराजे इत्याद्यपि । फण, राज, भ्राज, भ्राश, भ्लाश, स्यम, स्वन, फणादिः । ७४५ । न शसददवादिगुणानाम् । (६-४-१२६) शसददोर्वकारादीनां चाकारस्य, गुणनिष्पन्नस्य अकारस्य च एत्वमभ्यासलोपश्च न उक्तनिमित्ते । यथा— शस- (वि) शशसतुः (वि) शशसुः । दददे दददाते वादि – वम – ववमतुः गुणः— शृ— शशरतुः ववमुः । शशरुः । [लिट् (वि) शशसिथ । दददिरे । ववमिथ । कॄ-चकरतुः चकरुः ।

अथ आम्विधि:- ७४६ । कास्प्रत्ययादाममन्त्रे लिटि । (३-१-३५) 'कास शब्दकुत्सायाम्' – इत्यस्मात् प्रत्ययान्तेभ्यश्च धातुभ्यो लिटि आम्प्रत्यय: स्यात् । न तु मन्त्रे (छन्दसि) । अत्र वार्त्तिकम् - ॥ * ॥ कास्यनेकाच आश्वक्तव्यं चुलुम्पाद्यर्थम् ॥ इति । 'प्रत्ययात्' इत्यस्य स्थाने 'अनेकाच: ' इति वक्तव्यम् | यथा 'चुलुम्प पाने' इत्यादिभ्योऽपि आम् स्यादित्यर्थ: । आमो मकारस्य आस्कासोराम्विधानात् ज्ञापकान्नेत्संज्ञा क्रियते । 'विदांकुर्वन्तु' इत्यादि निपातनेषु मकार: श्रूयते च । आम्प्रत्ययोऽयं लिटि विकरणस्थानं बहुति । आम्-विधायकसूत्राणि व्याख्याय प्रक्रियां दर्शयिष्यामः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२५७&oldid=347626" इत्यस्माद् प्रतिप्राप्तम्