एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिक्षाकाण्डः ।
३। नीचैरनुदात्तः । (१-२-३०)
४ । समाहारः स्वरितः । (१-२-३१)
उच्च स्वर उदात्त: ; नीचोऽनुदात्त: ; उच्चनीचमिश्रितः स्वरितः ।
अथानुनासिकोऽननुनासिकश्चेति स्थानभेदप्रयुक्तस्तृतीयोऽप्यस्ति स्वराणां
विभागः । तत्राविकृतो यथास्थितः स्वरोऽननुनासिकः ॥
प्रकरणम् ]

५ । मुखनासिकावचनोऽनुनासिकः । (१-१-८)
मुखशब्देन मुखस्थितानि कण्ठादिस्थानानि गृह्यन्ते । मुखसहिता
नासिका मुखनासिका; तथा उच्चार्यमाणो वर्ण: अनुनासिकसंज्ञः । नायं
विभाग: स्वराणामेव; यवलानामपि अनुनासिकाननुनासिकभेदो
विद्यते । उदात्तानुदात्तस्वरितभेदः, अनुनासिकाननुनासिकभेदश्च स्वराणां
लौकिकभाषायामिदानीं नातीवोपयुज्यते; पाणिनिस्त्वेतैरपि व्यवहरती-
त्येव तत्स्वरूपं संक्षेपतोऽत्र वर्णितम् । लौकिकव्यवहारेषु तथा ह्रस्व-
दीर्घाभ्यामेवातीवोपयोगः ॥
अथ व्यञ्जनानि विभज्यन्ते । तेषां स्वरवत् जातिभेदो नास्ति ;
सर्वाण्यप्येकविधानि । विभागस्तु तेषां सङ्घशः पृथक्कृत्य संज्ञाकरणमेव ।
तत्र कादयो मपर्यन्ताः २५ वर्णा: 'स्पर्शाः' इति 'वर्ग्याः' इति
चोच्यन्ते । यरलवाश्चत्वारो 'मध्यमाः' 'अन्तस्थाः' वा । शपसाः
' ऊष्म ' -संज्ञिता: । स्पर्शेषु पञ्चभिः पञ्चभिरेको वर्ग इति पञ्च वर्गाः ।
ते च कवर्गः, चवर्गः, टवर्गः, तवर्गः, पवर्गः इति आद्यवर्णैर्व्यपदिश्यन्ते ।
पाणिनिस्तु 'मात्रालाभः पुत्रलाभो दाक्षीपुत्रस्य पाणिनेः' इति वचन-
मन्वर्थयन् उकारयोगेन वर्गाणां कु, चु, टु, तु, पु इति संज्ञाः करोति ।
प्रथमाः खराः, द्वितीया अतिखराः, तृतीया मृदवः, चतुर्था घोषाः,
पञ्चमा अनुनासिका इति पञ्चापि वर्गा: समानरूपं कल्पिता:
स्पता:

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२६&oldid=347390" इत्यस्माद् प्रतिप्राप्तम्