एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खिलधातवः] परिनिष्ठाकाण्डः । २४३ कृ ‘ऋत इद्धातोः’ (५२६), 'हलि च' (५३१) इति दीर्घः- कीर्यात् । पृ. –'उदोष्ठ्यपूर्वस्य' (५२८) वच, स्वप- ,, - पूर्यात् । –‘वचिस्वपि...’ (५१५) इति सम्प्रसारणम् – उच्यात्, सुप्यात् । आशीर्लिङः प्रयोगेष्वनतिप्राचुर्याद्विशिष्य प्रक्रिया नोच्यते । प्रकरणान्तरेषु प्रसङ्गादुक्ता वक्ष्यमाणाञ्च प्रक्रिया अत्रानुसन्धेयाः ॥p खिलधातवः ॥ यथा सार्वधातुकेषु पाघ्रादीनां पिबजिघ्रयादय आदेशा उक्तास्तथा आर्धधातुकेष्वपि केषांचिदादेशाः सन्ति । पिबादयः सार्वधातुकसामान्ये परतो भवन्ति । वक्ष्यमाणास्तु प्राय आर्धधातुकविशेष एवेति भेदः । न्त इदानीमुच्यन्ते - SPIR ७५६ । आर्धधातुके । (२-४-३५) इत्यधिकृत्य । विषयसप्तमी चेयम् । तेनार्धधातुकविवक्षायामादेशेषु - कृतेषु पश्चाद्यथाप्राप्तं कार्य भवति । यथा— भव्यम्, आख्येयं जघास । Chhabima परसप्तमीत्वे तु आद्ययोर्ण्यत् स्यात् ; तृतीये घस्ल येननाप्राप्तिन्यायेन द्वित्वांपवादः स्यात् ॥ ७५७ । अदो जग्धिर्यप्ति किति । (२-४-३६) अदो जग्धिरादेशः स्यात् ल्यपि तकारादौ किति च प्रत्यये । यथा- a ल्यप्— प्रजग्ध्य । क्त, अग्धः । क्त्वा - जग्ध्वा । - ७५८ | लुङ्सनोर्घस्ल । (२-४-३७) लुङि सनि च अदो घस्ऌ इत्यादेशः । ऌकारोऽङर्थः । यथा- अघसत् अघसताम् अघसन् । सनि– जिघत्सति । ७५ १ । घञपोश्च । (२४-३८ ) अनयोः कृत्प्रत्यययोरपि अदो घस्ऌ । यथा-घञ्-घासः । अप्-प्रघसः । ७६० । लिट्यन्यतरस्याम् । (२.४.४०) अदो वा घस्ऌ । यथा—जघास–जक्षतुः, जक्षुः । ‘गमहन (५६०) इत्युपधालोपः । आद आदतुः आदुःnne

काम किय

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२६२&oldid=347631" इत्यस्माद् प्रतिप्राप्तम्