एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ लघुपाणिनीये ७६१ । वेञो वयिः । (२-४-४१) - लिटि वा वेञो वयिरादेशः । वय् + अ – द्वित्वं, वय् वय् अ “लिट्यभ्यास- स्य...” इति यकारस्य संप्रसारणे प्राप्ते 'लिटि वयो यः' । (न संप्रसारणं) (६-१-३८) वयो यकारस्य न संप्रसारणमिति निषेधेन यकारस्य न । वकारस्य तु भवत्येव । उवाय ऊयतुः ऊयुः ‘वश्चास्यान्यतरस्यां किति' (६-१-३९) इति यकारस्य किति पक्षे वकारः । ऊवतुः ऊवुः । वयादेशाभावे, 'वेञः' (६-१-४०) लिटि सम्प्रसारणं न इति [खिलधातवः ववतुः ववुः । ७६२ | हनो वध लिङि । (२-४-४२) हन्तेर्वधादेशः आर्धधातुके लिङि । यथा-वध्यात् वध्यास्तां वध्यासुः । ७६३ । लुङि च । (२-४-४३) हनो वधादेशः । अवधीत् अवधिष्टाम् । ७६४ | आत्मनेपदेष्वन्यतरस्याम् । (२-४-४४) पूर्वेण नित्ये प्राप्ते विकल्प उच्यते । यथा - आवधिष्ट आवधिषाताम् । आइत आहसाताम् । ७६५ । इणो गा लुङि । (२-४-४५) अगात् अगाताम् अगुः । 'गातिस्था' (७०८) इति सिचो लुक् । ७६६ । णौ गमिरबोधने । (२-४-४६) णौ परे इणोऽबोधार्थस्य गमिरादेशः । यथा—गमयति । बोधने तु प्रत्याययति। ७६७ । सनि च । (२-४-४७) सन्याः अबोधनार्थस्य इणो गमिरादेशः । यथा-जिगमिषति । बोधनार्थे तु प्रतीषिषति । ७६८ । इङश्च । (२-४-४८) सनि परे गमिरादेशः । यथा— अधिजिगांसते । अध्येतुमिच्छति । - ७६९ । गाङ् लिटि । (२-४-४९) इङो गाङादेशो लिटि । यथा -- --अधिजगे । ७७० । विभाषा लुक्लङोः । (२-४-५०) कुमारणागापा स इङो वा गाङ् । यथा—अध्यगीट, अध्यैष्ट । अध्यगीष्यत, अध्यैष्यत । ७७१ । णौ च संश्चङोः । (२-४-५१) इङो गाङ् वा । यथा—णौ सनि—अधिजिगापयिषति । अध्यापिप- यिषति । चडि अध्यजीगपत् । अध्यापिपत् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२६३&oldid=347632" इत्यस्माद् प्रतिप्राप्तम्