एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनिष्ठाकाण्डः । - ७७२ । अस्तेर्भूः। (२-४-५२) आर्धधातुके अस्तेर्भूरादेशः । यथा- भविता, भविष्यति, बभूव, अभूत्, भूयात् । ७७३ । ब्रुवो वचिः । (२-४-५३) ब्रवो वचिरादेश: आर्धधातुके । यथा - चक्ता, वक्ष्यति उवाच अवोचत् उच्यात् । चक्ता, वक्ष्यते ऊचे अवोचत वक्षीष्ट | व्युत्पन्नधातवः] ७७४ । चक्षिङः ख्याञ् | (२-४-५४) चक्षिङः ख्यानादेश: आर्धधातुके । यथा- ख्याता ख्यास्यति चख्यौ अख्यत् ख्येयात् । ख्याता ख्यास्यते चख्ये अख्यत ख्यासीष्ट । ७७५ । वा लिटि । (२-४५५) चक्षिङः ख्याय् वा । यथा— चचक्षे चख्यौ चख्ये । - २४५ ७७६ । अजेर्व्यघञपोः । (२-४-५६) अजेर्धातोः वीत्यादेशः आर्धधातुके, न तु घनपोः । वलादावार्धधातुके विकल्प इष्यते । यथा – वेता, अजिता । वेष्यति, अजिष्यति । वलादौ किम् ? प्रवयणीयम् । घञपोस्तु समाजः, समजः । - ७७७ । वा यौ । (२-४-५७) यु इति ल्युटो ग्रहणम् । तत्र अजेर्वी वा । यथा—प्रवयणम् प्राजनम् । सार्वधातुकमावविषयाणाम् असब्रूप्रभृतीनां खिलत्वं परिजिहीर्षु- र्भूवचादीनेषामादेशान् करोत्याचार्यः ॥ व्युत्पन्ना धातवः ॥ व्याख्याता अव्युत्पन्ना: केवला धातवो ये 'भूवादयो धातवः' (१२५) इति दशभिर्गणैः परिगणिताः । अथ व्याख्यायन्ते व्युत्पन्न - धातवो ये 'सनाद्यन्ता धातवः' (१२७) इत्युक्तलक्षणाः । सनादयश्च - । सनाय

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२६४&oldid=347634" इत्यस्माद् प्रतिप्राप्तम्