एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६ [सार्थको ि लघुपाणिनीये संश्च क्यच्-क्यङ्-क्यषः काम्यच् णिणिचौ यग्यौ तथा । आय ईयङिति प्रोक्ता एकादश सनादयः ॥ इति परिगणिताः एकादश प्रत्ययाः । एषु सन्णिचौ सर्वेभ्योऽपि धातु- भ्यो भवतः । यङ् हलाद्येकाज्भ्य एव । णिङीयङाया: निर्दिष्टधातुभ्य एव । यक् कण्ड्ढादिभ्य इति व्यवच्छिन्नः । किञ्च, सन्णिचौ स्वार्थिकौ सार्थको चेति द्विविधौ | यङ् - क्यच् - क्यङ्- क्यष्-काम्यचः सार्थका एव । शेषा यगीयङायणिङ: स्वार्थिका एव । एषु सन्णिचोरेव बहुल: प्रयोग इति तावेव सविशेषमन्त्र व्याख्या येते ॥ - स्यात् ॥

सार्थको णिच् । ७७८ । स्वतन्त्रः कर्ता । (१-४-५४) क्रियासिद्धौ स्वातन्त्र्येण, प्राधान्येन, विवक्षितं कारकं कर्तृसंज्ञ

७७९ । तत्प्रयोजको हेतुश्च । (१-४-५५) ए तस्य कर्तुः प्रयोजकः, प्रेरको योऽर्थस्तत् कारकं हेतुसंज्ञं स्यात् कर्तृसंज्ञं च । यदा हि कर्ता परप्रेरणया क्रियां करोति तदा स्वयं क्रियानिर्वाहकः परप्रेर्यत्वात् प्रयोज्यकर्ता, अन्य: प्रेरकत्वात् प्रयोजक- कर्ता । प्रयोजककर्तुरेव हेतुरिति संज्ञा विहिता ॥ TESTER ७८० । हेतुमति च । (३-१-२६) हेतुः प्रयोजककर्ता । तदीयो व्यापारः प्रेरणादिलक्षणो हेतुमान् । तस्मिन्नर्थे धातोर्णिच् प्रत्ययः । देवदत्तः कटं करोति । तं यदा यज्ञदत्त: कटकरणक्रियायां प्रेरयति तदा कृधातोर्णिच् । णकारचकारावितौ । ‘कृ + इ' इति स्थिते णित्त्वादिगन्ताङ्गस्य वृद्धि: । 'कारि' इति णिजन्तो धातुः । तस्मात् लकारः । कर्तरि लटि शपू । तत्प्रयुक्त

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२६५&oldid=347637" इत्यस्माद् प्रतिप्राप्तम्