एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सार्थको णिच् ] परिनिष्ठाकाण्डः । ७९० । भियो हेतुभये षुक् । (७३-४०) ‘भी भये' इत्यस्य पुगागमो णौ । हेतोः (प्रयोजककर्तुः) चेत् भयं द्योत्यते । अन्त्रात्मनेपदं च विधास्यते । यथा - - जटिलो भीषयते । मुण्डो भीषयते । प्रत्यु० – कुञ्चिकया बालं भाययति । अत्र कुञ्चिकातो भयम् ॥ - ७९१ । स्फायो वः । (७-३-४१) स्फावयति ॥ ७९२ । शदेरगतौ तः । (७-३-४२) पुष्पाणि शातयति (कृन्तति) । गतौ — गाः शादयति गोपः ॥ ७९३ | रुहः पोऽन्यतरस्याम् । (७-३-४३) व्रीहीन् रोपयति, रोहयति वा ॥ अथान्येष्वपि आर्धधातुकेषूपयुक्त आत्वविधिरुच्यते- ७९४ । आदेच उपदेशेऽशिति । (६-१-४५) एजन्तो यो धातुरुपदेशे, तस्य आकारादेशः स्यान्न तु शिति प्रत्यये । यथा- - ह्वे – ह्वाता । सो -साता । - ह्वास्यति । ह्वाययति (७८७) सास्यति । साययति ग्लै—ग्लाता । ग्लास्यति । ग्लापयति (७८६) म्लै –म्लाता । म्लास्यति । म्लापयति प्रत्यु० - शिति तु ह्वयति, स्यति, ग्लायति, म्लायति ॥ >> ७९५ । न व्यो लिांट । (६-१-४६) लिटि व्यञ आत्वं न । विव्याय ॥ २४९ ७९६ । स्फुरतिस्फुलत्योर्घत्रि । (६-१-४७) अनयोरेच आत्वं स्यात् घञि । गुणनिष्पन्नस्य ओकारस्य आत्वम् । विस्फारः, विष्फालः ॥ ७९७ । क्रीङ्जीनां णौ । (६-१-४८) क्रीज्, इङ्, जि एषामेच आत्वं णौ । णिचि वृद्ध्या निष्पन्नस्य ऐकारस्य आत्वम् । आदन्तत्वे पुक् । यथा - कापयति, अध्यापयति, जापयति ॥ ७९८ । सिध्यतेरपारलौकिके । (६-१-४९) ऐहलौकिकऽर्थे सिधुधातोरेच आत्वं णौ । यथा-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२६८&oldid=347639" इत्यस्माद् प्रतिप्राप्तम्