एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये
[संज्ञा
सर्वोऽयं वर्णविभागः प्रयत्नमुपाधिमवलम्ब्य क्रियते । को नाम
प्रयत्नः ? वर्णा हि मुखगततत्तत्स्थानेभ्यः श्वासोदीरणेनोत्पद्यन्ते । तत्र
श्वासोदीरणार्थमास्थितः प्रयास एव प्रयत्नशब्देनोच्यते । स चाभ्यन्तरो
बाह्यश्चेति द्विविधः । तत्व प्रथममाभ्यन्तरो वर्ण्यते । स्वराणामुच्चारणे
श्वासो नियन्त्रणाभावादनर्गळं प्रसरतीति तेषां विवृतः प्रयत्नः । व्यञ्ज-
नोच्चारणे त्वन्तर्नियन्त्रितो न निःसार्यते श्वासः । अत एव व्यञ्जनानि
स्वयमुच्चारणाक्षमाणीत्युक्तम् । ऊष्मणामुच्चारणेऽपि किंचिदिव श्वासो
विवृत इति तेषाम् ईषद्विवृतः प्रयत्नः । तत्तत्स्थानेषु श्वासस्य बलवद्वट्ट-
नेनोत्पद्यन्त इति स्पर्शानां स्पृष्टः प्रयत्नः ; अत एव तेषां स्पर्शसंज्ञा च ।
अन्तःस्थानां कियांश्चिदंशः स्पृष्ट इति ईषत्स्पृष्टः प्रयत्नः । एवं विवृतः,
ईषद्विवृतः, स्पृष्टः, ईषत्स्पृष्ट इति चत्वार आभ्यन्तरप्रयत्नाः । विवृत-
प्रयत्नवानपि ह्रस्व: अकार: औत्तराहैर्व्यञ्जनवत् (श्वासस्य) संवारे-
णोच्चार्यत इति तस्य प्रयत्नः संवृत इत्युच्यते । पाणिनिना च तथा
समानातम्-
१०
-
६ । अ अ । (८-४-६८)
इत्यन्तिमेन सूत्रेण । अस्मिंश्च प्रथमोऽकारो विवृतः, द्वितीयः संवृतः;
संवृतत्वद्योतनाय मूर्धन्यङ्कुशचिह्नं निवेशितम् । विवृतोऽप्यकार
उच्चारणकाले संवृतो भवतीत्यर्थः । उच्चारणमात्रकार्यमिदं संप्रदायाभावा-
द्राविडैर्न सर्वत्रानुष्ठीयते | सन्त्यन्येऽपि देशभेदादुच्चारणभेदाः । यथा-
यत्र द्राविडानां वकारोच्चारणं संप्रदायस्तत्र वङ्गाः बकारमुच्चरन्ते ।
बवयोरभेदः, रलयोरभेदः, डळयोरभेद इत्यादिप्रपञ्चः सर्वोऽप्येवमुत्पन्नः ।।
बाह्यप्रयत्नस्त्वेकादशविधः, यन्निबन्धनः किल वर्गाणां खरा-
तिखरादिभेदः; स पुनर्नात्यन्तमुपयुक्त इति नात्र वर्ण्यते ||
अथ 'मुखनासिका...' इति सूत्रे परामृष्टानि वर्णानां स्थानानि
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२७&oldid=347391" इत्यस्माद् प्रतिप्राप्तम्