एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [सार्थक: सन् भू-'सनि प्रहगुहोच' (६७४) इतीनिषेधः, 'इको झल्' (६९१) इति कित्त्वं, बुभूषति । तृ–तितीर्षति तितरिषति । तितरीषति । भिद – बिभित्सति । बुध- बुभुत्सते । ‘सनि प्रहगुहोच' (६७४) इतीनिषेधः । मृ—–मुमूर्षति 'हलन्ताच ' (६९१) इति कित्वम् । ग्रह - जिघृक्षति । एवमादय इव्यवस्थादिषूक्ता विशेषविधयोऽत्रानुसंधेयाः ।। ८१० । सनि मी-मा-घु-रभ-लभ-शक-पत-पदामच २५२ इस् (सि) । (७-४-५४) सकारादौ (अनिटि) सनि परे मीमादीनामचः स्थाने इसादेशः । अ, आ, ई इति त्रयोऽच एषु विद्यन्ते । इस् इति सान्त एवादेशः ।। ८११ । आप्ज्ञप्यधामीत् । (७-४-५५) एषामच ईकार आदेश: सादौ सनि ।। ८१२ | दम्भ इच्च । (७-४-५६) दम्भेरच ईकार इकारश्चादेशः सि सनि ॥ ८१३ | मुचोऽकर्मकस्य गुणो वा । (७-४-५७) अकर्मकस्य मुञ्चतेः गुणो वा सि सनि ॥ ८१४ । अत्र लोपोऽभ्यासस्य । (७-४-५८) 'सनि मीमा....' इत्यादि चतुस्सूत्र्या विहितेषु इसादिषु कृतेष्व- भ्यासस्य लोप: स्यात् । अथोदाह्रियन्ते- - मी—मी + स = मिस् + स 'सः स्यार्धधातुके' (७०७) इति सस्य तः मित्सति। माङ्-मित्सते । लभ–लिप्सते । घु - दित्सति-ते । - -धित्सति-ते । - " रभ – प्रारिप्सते । शक – शिक्षति । - पत-पित्सति । पद – प्रपित्सते । १. ‘म्रियतेर्लुङ्लिङोश्च' इति लिशिसु एव मृङ आत्मनेपदमिति नियमात् सनि चोक्तनिमित्ताभावात् 'पूर्ववत्सनः' इत्यात्मनेपदं न ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२७१&oldid=347642" इत्यस्माद् प्रतिप्राप्तम्