एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ लघुपाणिनी “शैषिकान्मतुबर्थीयाच्छैषिको मतुबर्थिकः । सरूपः प्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते ॥ " [यङचङ्लुकौ इति वचनात् चिकीर्षितुमिच्छतीति सन्नन्तात् सन् न भवति । इच्छासन्नन्तादेव प्रतिषेधः । स्वार्थिकसन्नन्तात्तु भवत्येव | यथा— मीमांसिषते, 'चिकित्सिषति ॥ यङचङ्लुकौ ॥ ८१९ । धातोरेकाचो हलादेः क्रियासमभिहारे यङ् | (३-१-२२) पौनः पुन्यं भृशार्थश्च क्रियासमभिहारः । तस्मिन्नर्थे एकाचो हला- देर्धातोर्यङ्प्रत्ययः । ङित्त्वादात्मनेपदी | पुनः पुनः, भृशं वा भवतीत्यर्थे विवक्षिते भू + य इति यङ् । 'सन्यङो: ' (६०३) इति द्वित्वं, 'गुणो यङ्लुकोः' (६२३) इत्यभ्यासस्य गुणः, उत्तरखण्डस्य तु यङो ङित्त्वा- न्न गुणः - J बोभूयते बोभूयेते बोभूयन्ते इत्यादि । अबोभूयत । बोभूयताम् । बोभूयेत । बोभूयिष्यते । [‘अतो लाप.' (८०७)] अबोभू/यष्यत । बोभूयिता । अबोभूयिष्ट । बोभूयाश्चक्रं, बभूव, आस । बोभूयिषीष्ट ॥ ● भिद – बेभिद्यते । ‘यस्य हलः' (८०८) इति यलोपः । बेभिदिता बेभिदिष्यते इत्यादि ॥ ८२० । नित्यं कौटिल्ये गतौ । (३-१-२३) mal - गत्यर्थकादेकाचो हलादेर्धातोः कौटिल्येऽर्थ एव यङ्, न तु क्रियासमभिहारे । यथा - ब्रज – कुटिलं व्रजति वाव्रज्यते ॥ ८२१ । लुप-सद-चर-जप-जभ-दह-दश- गृभ्यो भावगर्हायाम् । ।। (३-१-२४) १. कितधातु’ परस्मैपदी ‘य एवं विद्वात् विचिकित्सति’ ‘तच्छुश्रुवानृषिर्थ्यचिकि- त्सत्' इत्यादि प्रयोगदर्शनात् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२७३&oldid=347644" इत्यस्माद् प्रतिप्राप्तम्