एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यङचङ्लुकौ] परिनिष्ठाकाण्डः । = एभ्यो धात्वर्थगयामेव य | यथाpl गर्हितं लुम्पति = लोलुप्यते । सासयते । ‘चरफलोश्च' (६२८) इत्यभ्यासस्य नुक् । ‘उत्परस्यातः’ (६२९) इति अत उच्च ‘हलि च’ इति दीर्घः चञ्चूर्यते । ‘जपजभ......' (६२७) इति नुक्, जञ्जप्यते । जञ्जभ्यते । दन्दह्यते । दन्दश्यते । जेगिर्यते इत्यत्र ‘ग्रो यङि' (८२४) इति रेफस्य लत्वेन जेगिल्यते । लत्वप्रसङ्गान्मध्ये लत्वविधिरुच्यते-msp 4 25 २५५ www ८२२ । कृपो रो लः । (८-२-१८) कृपधातो रेफस्य लकार आदेश: स्यात् । 'र' इति 'ल' इति च श्रुतिसामान्यमुपादीयते । तेन यौ व्यञ्जनरूपौ रेफलकारौ यौ च ऋकारलकारयोः अवयवौ श्रूयेते तयोर्द्वयोरपि ग्रहणम् । तथा च कृप- धातोर्ऋकारस्य लकार:, रेफस्य लकारश्चानेन विधीयेते । 'रषाभ्यां नो णः……….’ इति णत्वविधावप्येवमेव रेफश्रुतिमात्रमाचार्यस्य विवक्षि- तम् । अत एव ऋवर्णस्तत्रोपेक्षितः । वार्त्तिककारस्तु सूत्रकारस्य विव- क्षितमेव 'ऋवर्णान्नस्य णत्वं वाच्यम्' इति स्पष्टीकृतवान् । किञ्च स्व- मतमिदं पाणिनिरेव ज्ञापयति 'तासि च क्लृपः' (६५९) इति कृपधातो- दुपधपाठेन । कृपधातोः क्ङित्प्रत्ययान्तरूपेष्वेव लकार उपलभ्यते, क्लप्तं, क्लृप्तवत्, क्लप्तिः, प्रक्लप्य इति । अतो यथा विसर्गानुस्खारौ रेफमकारयोरुच्चारणभेदौ तथा लकारोऽपि लकारस्य स्वरभक्तिसंवलित उच्चारणभेद एवेति कल्पयितुं शक्यते । मन्ये पाणिनेरप्येतदभिप्रेतं स्यात् । अन्यथा ‘क्लप' इति ऌकारोपधमेव धातुमपठिष्यदाचार्यः । रैप्रत्याहारवादिनां च लकारस्य गुणे लपरत्वं सुलभमेव । एवं च Kon ११. 'अचीक्ऌपत्' इत्यत्राभ्यासे ऌकारस्य अत्त्वं, 'चलक्लृिप्यते' इत्यत्र लीगागमं च पृथगन्वशासिष्यत् । DISIP २. रप्रत्याहारो नाम ‘लण्' इति प्रत्याहारसूत्रे लकारोपरिश्रूयमाणस्य अकार- स्यानुनासिकत्वप्रतिज्ञानेन इत्संज्ञां सम्पाद्य 'हयवरद्' इति रेफे तद्योजनेन निर्वर्तितो रेफलकारग्राही 'र' इति प्रत्याहारः । तथोजनेन निर्वार्त

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२७४&oldid=347645" इत्यस्माद् प्रतिप्राप्तम्