एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये विंसर्गादेरिव ऌकारस्य चाक्षरसमाम्नायात् क्षतिः । अथ प्रकृतं सूत्रमुदाहियते – कृप- कर्पते = कल्पते । - = २५६ [यङचङ्लुकौ बहिष्करणेऽपि न महती कर्ता = कल्प्ता । कृप्तः = क्लृप्तः ॥ ८२३ | उपसर्गस्यायतौ । (८-२-१९) अयतौ परे उपसर्गरेफस्य लकारः । यथा- प्रायते = प्लायते । परायत = पलायते । = = पर्ययते = पल्ययते ॥ = ८२४ । यो यङि । (८२-२०) गृधातो रेफस्य लकारो यङि । यथा— -जेगिर्यत इति दीर्घस्य दृष्ट्या लत्वस्य सिद्धत्वान्न दीर्घस्यावसरः । = जगिल्यते । 'हलि च ८२५ । अचि विभाषा । (८-२-२१) अजादौ प्रत्यये परे गृधातो रेफस्य वा लकारः । यथा- गिरति, गिलति । निगरणं, निगलनम् । ८२६ । परेश्च घाङ्कयोः । (८-२-२२) परि इत्युपसर्गे स्थितस्य रेफस्य लो वा घशब्दे अङ्कशब्दे च परे । यथा- परिघः, पलिघः । पर्यङ्कः, पल्यङ्कः ॥ अथ प्रस्तुता यङचङ्लुकप्रक्रिया — तत्र यङो लुगुच्यते- ८२७ । यङोऽचि च (लुक् बहुलम्) | (२-४-७४) यङोऽच्प्रत्यये अन्यत्रापि बहुलं लुक् । लुप्तेऽपि यङि प्रत्यय- लक्षणेन यङन्तत्वाद्धातुत्वं, द्वित्वं च ॥ “श्तिपा शपानुबन्धेन निर्दिष्टं यद् गणेन च । यत्रैकाज्महणं चैव पञ्चैतानि न यङ्लुकि ॥” इति वचनात् 'अनुदात्तङित....' इत्यात्मनेपदस्याप्रवृत्तौ 'शेषात् कर्तरि परस्मैपदम्' एव। 'चर्करीतं च' इत्यदादिगणे पाठात् शपो लुक् । चर्करीतमिति यङ्लुगन्तस्य प्राचां संज्ञा । 'गुणो यङ्लुको: ' (६२३) इत्यभ्यासस्य गुणः, 'यङो वा' (५७३) इति पितः सार्वधातुकस्य काय व वा ईट्-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२७५&oldid=347646" इत्यस्माद् प्रतिप्राप्तम्