एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६० (२) दम – दमयति — अदीदमत् । रम – रमयति – अरीरमत् । - लघुपाणिनीये - (३) ज्वल–ज्वलयति – ज्वालयति । नम नमयति – नामयति । अमन्तः " [स्वार्थिकप्रत्ययाः उपसृष्टात्तु नमेरमन्तत्वान्नित्यं मित्त्वं, ज्वलतेश्च घटादित्वात् । (२) परिणमयति । प्रज्वलयति । (५) कमु – कान्तौ – कामयते । मित्त्वनिषेधान्न ह्रखः । - (६) शमु – निशमयति (शृणोति) निशामयति (पश्यति)। ग्लै = ग्ला–ग्लपय ग्लापयत अजिग्लपत्, आदन्तत्वात् पुक् ततो ह्रखः । स्ना—स्नपयति– स्नापयति – असिष्णपत् । इत्यादि । ‘मितां ह्रस्वः' इति सूत्रे ‘वा चित्तविरागे' इति पूर्वसूत्रात् 'वा' - कारमनुवर्त्य व्यवस्थितविभाषाश्रयणेन- विश्रामं लभतामिदं च शिथिलज्याबन्धम स्मद्धनुः' - शाकुन्तलम् । 'विश्रामो हृदयस्य यत्र...'– उत्तररामचरितम् । 'कक्ष्यावृत्तज्या उच्चनीचवृत्ते परिणाम्यते '– गणितम् । इत्यादिप्रयोगाः साधूक्रियन्ते ॥ चुरादौ 'ज्ञप मिच्च' इत्यतः परं ‘यम च परिवेषणे’ ‘चह परिकल्कने' 'रह त्यागे' 'बल प्राणने' 'चिञ् चयने' इति धातून् पठित्वा 'नान्ये मितोऽहेतौ' इति सूत्रितम् । तेन (अहेतौ) स्वार्थणिचि ज्ञपादिषट्कमेघ मित् । अमन्तत्वप्रयुक्तं मित्त्वं न विद्यते । अतः ‘शम' इति चौरादिकस्य शामयतीत्येव रूपम् || ‘प्रातिपदिकाद्धात्वर्थ' इत्यादीनि गणसूत्राणि नामधातु- प्रकरणे व्याख्यास्यामः । स्वार्थिकप्रत्ययप्रसङ्गे ह्यत्र तेषां नावसरः ॥ १. निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिचि घञ् । एवं कल्पनायां निष्प्रयोजना भाग- त्यागलक्षणा स्वीकर्तव्या । शुद्धधातोर्घत्रि तु नोदात्तोपदेशस्येति वृद्धिर्निषिध्यते । 'बौ श्रमेर्घजि वा' इति वर्धमानव्याकरणरीत्या वृद्धिविकल्पे तु “विश्राम इति भट्टोजिः । “ विश्राम इस्य पाणिनी इत्यपाणिनीयम् ”

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२७९&oldid=347650" इत्यस्माद् प्रतिप्राप्तम्