एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनिष्ठाकाण्ड: । ८३६ । कण्डादिभ्यो यक् । (३-१-२७) कण्ड्ढादिभ्यो धातुभ्यो यक् स्वार्थे । कण्ड्डादिगणे प्रातिपदिका- न्येव धातुत्वेन पठ्यन्ते । तेभ्यो धात्वर्थ एव यक् । स्वार्थिकप्रत्ययाः] कण्डूञ् गात्रविघर्षणे–कण्डूयति, -ते । कण्डूयिता । कण्डूयाञ्चकार,-चक्रे इत्यादि । मन्तु अपराधे–‘अकृत्सार्वधातुकयोः...' (८२८) इति दीर्घः, मन्तूयति । असु उपतापे – असूयति । पूर्ववद्दीर्घः । सुख दुःख तत्क्रियायाम्– ‘अतो लोपः' मुख्यति, दुःख्यति । सपर पूजायां – सपर्यति, सपराञ्चकार । २६१ भिषज् चिकित्सायाम् – भिषज्यति, भिषजाञ्चकार । - हृणीङ् लज्जायां—हृणीयते । महीङ् पूजायां — महीयते । उषस् प्रभातीभावे – उषस्यति, उषसाञ्चकार । आकृतिगणोऽयम् । तेनापठिता अपि धातवो प्रायाः ॥ ८३७ । गुप्-धूप-विच्छि-पणि पनिभ्य आय: । (३-१-२८) गुपू रक्षणे, धूप सन्तापे, विच्छ गतौ, पण पन व्यवहारे स्तुतौ च इत्येतेभ्यो भौवा दिकेभ्यः स्वार्थे आयप्रत्ययः । यथा - गोपायति, अगोपायत्, गोपायतु, गोपायेत् इत्यादि । एवं धूपायतीत्यादयः ॥ 20 ८३८ । ऋतेरीयङ् । (३-१-२९) - ऋतिः सौत्रो धातुर्घृणाद्यर्थकः । तस्य स्वार्थे ईयङ् । ङित्त्वात् तङ्- ऋतीयते इत्यादि ॥ ८३९ । कमेर्णिङ्। (३-१-३०) कमु कान्तौ इति भौवादिकस्य स्वार्थे णिङ् । णिजन्तवत् प्रक्रिया । ङित्त्वात्तडेवेति भेदः । कामयते इत्यादि ।। ८४० । आयादय आर्धधातुके वा । (३-१-३१) आर्धधातुकविवक्षायां आय, ईयङ्, णिङ् इत्येते त्रयो विकरूपे- नैव स्युः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२८०&oldid=347651" इत्यस्माद् प्रतिप्राप्तम्