एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनी [नामधातुप्रत्ययाः गुपू—गोपायिता, गोपिता गोप्ता । गोपायाञ्चकार, जुगोप। अगोपायीत् अगौ- प्सीत् अगोपीत् इत्यादि । एवं — कामयिता, कमिता । कामयाञ्चक्रे, चकमे । अची- कमत । णिङभावेऽपि ‘कमेश्च्लेश्चङ्गक्तव्यः' इति वार्त्तिकाचङ्, णेरभावान्न सन्वद्भावः, अचकमत ॥ २६२ नामधातुप्रत्ययाः ॥ ८४१ । सुप आत्मनः क्यच् । (३-१-८) ‘धातोः कर्मणः समानकर्तृकादिच्छायां वा' इत्यतोऽनन्तरं सूत्र- मिदम् । इषिकर्मण एषितुरेवात्मसम्बन्धिनः सुबन्तादिच्छायामर्थे वा क्यच्-प्रत्ययः । देवदत्तः पुत्रमात्मन इच्छति इति विवक्षायां कर्म- भूतात् द्वितीयान्तात् पुत्रशब्दात् क्यच् । पुत्रं + य इति स्थिते- ८४२ । सुपो धातुप्रातिपदिकयोः । (२-४-७१) धातुप्रातिपदिकयोरवयवभूतस्य सुपो लुक् । इत्यनेन पुत्रं य इति क्यजन्तधातोरवयवस्य द्वितीयैकवचनस्य निवृत्तौ पुत्र + य इति क्य- जन्तो धातुः । अकारस्य ईकारोऽनुपदं वक्ष्यते-पुत्रीय । अस्मात् शप्- तास् - स्यादियोगेन रूपाणि- पुत्रीयति, अपुत्रीयत्, पुत्रीयेत्, पुत्रीयिता, पुत्रीयिष्यति, पुत्रीयाञ्चकार अपुत्रीयीत् इत्यादि । अथाकारस्य ईकारविधिरुच्यते- [८४३ । अस्य च्वौ (ई) । (७-४-३२) अवर्णान्तस्याङ्गस्य ईकारोऽन्तादेशश्च्वौ परे । च्विंरिति सर्वलोपी तद्धितः । शुक्लीभवति, शुक्लीकरोतीत्याद्युदाहरणम् ॥] ८४४ | क्यचि च । (७-४-३३) क्यचि परे च अवर्णान्तस्याङ्गस्य ईकारोऽन्तादेशः । यथा— पुत्रमिच्छति = पुत्रीयति । मालामिच्छति = मालीयति । -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२८१&oldid=347652" इत्यस्माद् प्रतिप्राप्तम्