एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६४ लघुपाणिनीये [नामधातुप्रत्ययाः पृथक् सूत्रं कृतवानाचार्य: । उपमानात् कर्मण: सुबन्तादाचारेऽर्थे वा क्यच् । आचारक्रियायाः प्रत्ययार्थत्वात् तदपेक्षयैव उपमानस्य कर्मता । अतश्च आचरतिरत्र सकर्मकः । यथा- पुत्रमिवाचरति पुत्रीयति छात्रम् । प्रावारमिवाचरति प्रावारीयति कम्बलम् । राजानमिवाचरति राजीयति वल्लभम् । पितरमिवाचरति पित्रीयति गुरुम् । ‘रीद्धृत:' (८३०) इति रीङादेशेन पित्रीयति इति रूपसिद्धिः ।। ॥ * ॥ अधिकरणाञ्चेति वक्तव्यम् || अधिकरणात् सुबन्तादण्याचारे क्यज्वक्तव्यः । यथा— प्रासादे इवाचरति प्रासादीयति कुट्यां भिक्षुः । ८४९ । कर्तुः क्यङ् सलोपश्च । (३-१-११) उपमानात् कर्तुः सुबन्तादाचारेऽर्थे वा क्यङ् । प्रकृतेः सान्तत्वे सकारलोपश्च । ङित्त्वात्तङ् । 'क्याच च' इति अनुबन्धविशिष्टस्य निर्देशात् क्यङि अवर्णस्य ईत्वं न भवति । अकृत्सार्वधातुकयोर्दीर्घः- = कपीयते वटुः । विष्णु- पिनीयते गुरुः । अप्सरा इवाचरती- = त्यत्र सलोपे, अप्सरायते वेश्या । ओज इवाचरति ओजायते । अत्र ओजःशब्दो लक्षणया ओजस्विपरः । सलोपनियमं करोति कात्या- यन:- पुत्र इवाचरति = पुत्रायते छात्रः । कपिरिवाचरति = रिवाचरति = विष्णूयते द्विजः । पितेवाचरति = - = ओजसोऽप्सरसो नित्यमितरेषां विभाषया । पय इवाचरति यते पथस्यते वा जलम् । ॥ ॐ ॥ सर्वप्रातिपदिकेभ्य आचारे क्विब्वा वक्तव्यः ॥ किपि ककारपकारावितौ । इकार उच्चारणार्थ: । शेषस्य ‘व्' इत्यस्य लोपश्च । तथा च सूत्रम् - ८५० | वेरपृक्तस्य (लोपः) । (६-१-६७) DF वि इत्यपृक्तस्य लोपः स्यात् । = पया-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२८३&oldid=347654" इत्यस्माद् प्रतिप्राप्तम्