एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामधातुप्रत्ययाः] परिनिष्ठाकाण्ड: । २६५ ‘प्रातिपदिकेभ्य’ इत्युक्तेर्न पदकार्यम् । कृष्ण इवाचरति = कृष्णति । अत्र 2 = - ‘अतो गुणे' इति शपा सह पररूपम् । मालेवाचरति • मालाति । कविरिवाचरति कवयति – शनिमित्तको गुणः । कवयिता— तासिप्रयुक्तो गुणः । 'अनुनासिकस्य क्वि झलोः क्ङिति’ (८८०) इति वक्ष्यमाणोऽनुनासिकान्तेषूपधादीर्घः । राजेवाचरति राजानति । पन्था इवाचरति = पथीनति । अयमिवाचरति = इदामति । ‘प्रत्य- योत्तरपदयोश्च’ (३५२) इति त्वद् —–मदादेशौ । त्वमिवाचरति = त्वदति । अद्द- मिवाचरति = मदति । यूयमिवाचरति = युष्मदति । वयमिवाचरति =अस्मदति । ८५१ । भृशादिभ्यो भुव्यच्वेर्लोपच हलः । (३-१-१२) भृशादिभ्यः प्रातिपदिकेभ्योऽव्यन्तेभ्यो भवत्यर्थे क्यङ् । एषु हलन्तानां तदा अन्तलोपश्च । यथा— अभृशो भृशो भवति–भृशायते । ‘अकृत्सार्वधातुकयोः' इति दीर्घः । विमनस्—विमनायते । दुर्मनस्—दुर्मनायते । सुमनस्– सुमनायते । इत्यादि । चपल–चपलायते । पण्डित – पण्डितायते । - = ओजस्—ओजायते । प्रत्यु० – ('अच्वेः' किम् ?) भृशीभवति । ८५२ | लोहितादिडाज्भ्यः क्यष् । (३-१-१३) लोहितादिभ्यो डाच्प्रत्ययान्तेभ्यश्च भवत्यर्थे क्यष् । 'वा क्यष: ' इत्यात्मनेपदं वा । अत्र वार्त्तिकम् - ॥ * ॥ लोहितडाज्भ्यः क्यष्वचनं, भृशादिष्वितराणि ॥ आदिशब्दग्राह्येभ्यः क्यङेवेष्यते, अतस्तान् भृशादावेव पठित्वा आदिपदं विना सूत्रयितव्यमित्यर्थः । क्यष्-क्यङो: पदे विशेषः । यथा- लोहितं भवति लोहितायति, -ते । अव्यक्तानुकरणे डाच्प्रत्ययस्तद्धितः । पटपटत् इत्येवं भवति पटपटायति, ते । चकचकायति, ते । घुरुघुरायति, ते । इत्यादि । निद्रा – निद्रायति, -ते । करुणा - करुणायति, -ते । मन्द मन्दायते । -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२८४&oldid=347655" इत्यस्माद् प्रतिप्राप्तम्