एतत् पृष्ठम् अपरिष्कृतम् अस्ति

..लघुपाणिनीये फेन–फेनायते । इत्यादिर्लोहितादिराकृतिगणः । [नामधातुप्रत्ययाः ८५३ । कष्टाय क्रमणे । (३-१-१४) चतुर्थ्यन्तात् कष्टशब्दात् उत्साहेऽर्थे क्यङ् । यथा – कष्टाय क्रमते–कष्टायते । ८५४ । कर्मणो रोमन्थतपोभ्यां वर्तिचरोः । (३-१-१५) यथा – रोमन्थं वर्तयति – रोमन्थायते । तपश्चरति — तपस्यति । अत्र परस्मै- पदं वार्तिकविहितम् । ८५५ । बाष्पोष्मभ्यामुद्रमने । (३-१-१६) बाष्पमुद्वमति–बाष्पायते । ऊष्माणम् ऊष्मायते । ८५६ । शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे । (३-१-१७) शब्दं करोति-शब्दायते । एवं वैरायते, कलहायते, इत्यादि । ८५७ । सुखादिभ्यः कर्तृवेदनायाम् । (३-१-१८) कर्तृवेदना कर्तुः संवेदनम् । सुखं वेदयते-सुखायते । दुःखायते । ८५८ । नमोवरिवश्चित्रङः क्यच् । (३१-१९) करणे इत्यनुवृत्तेः क्रियाविशेषे (पूजायां परिचर्यायामाश्चर्ये च) क्यच् । नमस्यति, वरिवस्यति, चित्रीयते । ८५९ । पुच्छभाण्डचीवराणिङ् | (३-१-२०) पुच्छमुदस्यति—उत्पुच्छयते । भाण्डं समाचिनोति-सम्भाण्डयते । चीवरं परि- धत्ते सञ्चीवरयते । अथ चुरादौ पठितानि गणसूत्राणि- १. प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च । प्रातिपदिकात् धात्वर्थे बहुलं णिच् स्यात् । इष्ठप्रत्यये इव का- र्याणि च स्युः । पुंवद्भाव - रभाव - टिलोप - विन्मतुब्लोप - यणादिलोप- - १. लोहित – नील-हरित-पति- मद्र-फेन- मन्द - इति सप्तशब्दाः गणे पठ्यन्ते । पठितेभ्यो नीलादिभ्यः क्यङ् । अपठितेभ्य आकृत्या गृहीतेभ्यः श्यामादिभ्यः क्यष् । इतीदं काशिकाकृन्मतम् । लोहितडाज्भ्य एव क्यषू, अन्येभ्यः क्यडेवेति भाष्यकृन्मतम् । पक्षयोः पदे भेदः । यथाप्रयोगं प्रामाण्यम् |

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२८५&oldid=347656" इत्यस्माद् प्रतिप्राप्तम्