एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामधातुप्रत्ययाः] परिनिष्ठाकाण्डः । प्रस्थस्फाद्यादेश-भसंज्ञा: इष्ठप्रत्यये परे भवेयुः । तानि कार्याण्यत्राप्यति- दिश्यन्ते । यथा— पटुमाचष्टे पटयति । टिलोपः हस्तिनातिक्रामति हस्तयति । २. तत्करोति तदाचष्टे। } पूर्वस्य प्रपञ्चाबेताबुदाहृतौ च । " २६७ बलवन्तं करोति बलयति । मतुब्लोपः। मेधाविनं करोति मेधयति । विन्लोपः । ४. धातुरूपं च । ● णिच्प्रकृतिः धातुरूपं प्रतिपद्यते । चकारेण कार्यान्तराणि च । तानि वार्त्तिक- कारो व्याचष्टे । आख्यानात् कृतस्तदाचष्टे कृल्लुक् प्रकृतिप्रत्यापत्तिः प्रकृतिवच्च कारकम् । यथा -- कंसवधमाचष्टे इत्यर्थे कंसवधशब्दादाख्यानवाचकात् कृदन्ताण्णिचि कृते घञ्प्रत्य- यस्य लोपः । हन इति वधप्रकृतेः प्रत्यापत्तिः । हनधातुकर्मणः प्रकृतिनिष्ठं कारकं द्वितीया च भवति – कंसं + हन् + इ = कंसं, घातयति । घातयतीति हनो णिचि तादेशो मिश्रप्रकरणे वक्ष्यते । बलिबन्धमाचष्टे – बलिं बन्धयति । राजागमनमाचष्टे- राजानमागमयति । आङ्लोपश्च कालात्यन्तसंयोगे मर्यादायाम् । यथा—आरात्रि विवास- माचष्टे - रात्रि विवासयति । - - चित्रीकरणे प्रांपि । यथा - उज्जयिन्याः प्रस्थितो माहीष्मत्यां सूर्योद्गमनं संभावयति — सूर्यमुद्गमयति । नक्षत्रयोगे ज्ञि । यथा-पुष्ययोगं जानाति-पुष्येण योजयति । 'सत्याप...' (८३४) इत्यादिः ‘प्रातिपदिकाद्धात्वर्थे' इत्यस्यैव प्रपञ्चः – सत्यमाचष्टे – सत्यापयति । अर्थवेदयोरापुग्धक्तव्यः । अर्थमाचष्टे- अर्थापयति । वेद – वेदापयति । क्षमाशब्दादपि आपुग्दृश्यते – यथा – क्षमापयति । एवं वर्धापयतीत्यपि । विपाशयति । निरूपयति उपवीणयति । अनुतूलयति । उपश्लोकयति । अभिषेणयति । अनुलोमयति । त्वचयति । संवर्मयति । वर्णयति । अवचूर्णयति ॥ - अवय

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२८६&oldid=347657" इत्यस्माद् प्रतिप्राप्तम्