एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रप्रकरणम् ] परिनिष्ठाकाण्डः । तद्धित – ‘ठस्येकः' - वार्षिकं - तद्धितत्वेन प्रातिपदिकसंज्ञा । अव्यय- -" को ल्यप् '— प्रकृत्य – त्वादेशत्वादव्ययत्वम् । सुप्–‘डेर्यः’—वृक्षाय इति ‘सुपि च ' इति दीर्घः । तिङ्—‘तस्थस्थमिपां तान्तन्तामः'– अकुरुताम् इत्यस्यं तिङन्तत्वात् पदसंज्ञा । पद –'बहुवचनस्य वस्त्रसौ '. '— ग्रामो वः स्वम् इति पदत्वाद्रुत्वम् । ८६१ । अचः परस्मिन् पूर्वविधौ । (१-१-५७) २६९ अल्विधावपि कचित् स्थानिवद्भावविध्यर्थमारम्भः । परस्मिन्निति निमित्तसप्तमी । (परस्मिन्नच आदेश:) परनिमित्तकोऽजादेशः । स्थानि वत् स्यात् । (पूर्वविधौ) स्थानिभूतादचः पूर्वस्य विधौ कर्तव्ये । यथा- - ८ कथयति - अत्र 'कथ' इत्यकारान्ताद्धातोर्णिचि 'अतो लोपे' तस्य स्थानिव- द्भावात् ककारोपरिगताकारस्य उपधात्वाभावेन ‘अत उपधायाः' इति वृद्धिर्न भवति । अत्र लुप्तोऽकारोऽन्त्यः उपधायाश्च विधिः कर्तव्य इति पूर्वस्यैव विधिः । आर्धधातुके परे विहित इति परनिमित्तकश्चायमल्लोपः । अदर्शनरूपो लोपोऽप्यादेशत्वेन गण्यते । शून्यादेशो हि लोपो नाम । प्रत्यु० – ('अचः' किम् ?) अक्राष्टाम्-अत्र 'झलो झलि' इति सिचो लोपः परनिमित्तक कृषेः षकारस्य ' षढोः कः सि' इति कत्वे कर्तव्ये न स्थानिवत् । (‘परस्मिन्’ किम् ?) वैयाघ्रपद्यः— अत्र पादस्यान्तलोपो न परनिमित्तक इति पद्भावं न प्रतिबध्नाति । — ('पूर्वविधौ' किम् ?) हे गौः — अत्र वृद्धिरजादेशः सम्बुद्धिलोपे कर्तव्ये न स्थानिवत् । ८६२ । न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वार- दीर्घजश्चर्विधिषु । (१-१-५८) पूर्वेणातिप्रसक्तः स्थानिवद्भावः पदान्तादिविधिषु प्रतिषिध्यते । यथा – पदान्त–कानि सन्ति अत असन्तीत्यकारस्य 'किङति सार्वधातुक' इति परनिमित्तः ‘श्नसोरल्लोपः' इति लोपः पूर्वस्य 'कानि' इति इकारस्य यणादेशं प्रति न स्थानिवत् । द्विर्वचन – मध्वरि :-

- अत्र परनिमित्तको यणादेशो वकारः

‘अनचि च ' इति द्वित्वे कर्तव्ये न स्थानिवत् । च’ एवमन्येऽयुवाहाक धकारस्य

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२८८&oldid=347659" इत्यस्माद् प्रतिप्राप्तम्