एतत् पृष्ठम् अपरिष्कृतम् अस्ति

________________

२७० लघुपाणिनीये [मिश्रप्रकरणम् ॥ * ॥ पूर्वत्रासिद्धे न स्थानिवत् संयोगादिलोपलत्वणत्ववर्जम् ॥ आदित्यो देवतास्येत्यर्थे आदित्यं हविः । ण्यप्रत्यये सति ‘यस्येति च' इति प्रकृत्यन्त्यस्याकारस्य लोपो न स्थानिवत् हलो यमां यमीति लोपे कर्तव्ये । संयोगादिलोपादिषु तु स्थानिवद्भवत्येव-चक्र यत्र, निगार्यते, माषवपनी ॥ । अनेन सिद्धत्वात् द्विवचनादिग्रहणं भाष्ये प्रत्याख्यातम् ।। ८६३ । द्विवंचनेचि । (१-१-५९) द्वित्वनिमित्तेऽचि परे अजादेशः स्थानिवत्स्यात् द्वित्व एव कर्तव्ये । स्थानिवद्भावविधिद्वारा द्वित्वे कर्तव्ये परनित्यत्वादिभिर्बलीयसामप्यजादेशानां प्रतिषेधफलकमिदं सूत्रम् । यथा जग्मतुः-अत्र द्वित्वात् परत्वात् 'गमहन...' इति उपधालोपः प्राप्तोऽनेन प्रतिषिध्यते । लोपः प्रथमं क्रियते चेत् स्वरनाशात् 'एकाच...' इति द्वित्वस्य न प्रसक्तिः । अथ प्रकीर्णकाः केचिद्विधयः-तत्र (१) ईत्वम् ८६४ । ईद्यति (आत:) । (६-४-६५) आदन्तस्य धातोरीकारोऽन्तादेशो यत्प्रत्यये परे । यथा ग्ला-ग्लेयम् । दा-देयम् । हा-हेयम् । स्था-स्थेयम् । कृत्प्रत्ययोऽयम् । (८३१) 'घुमास्थागापाजहातिसां हलि' (६-४-६६) व्याख्यातम् ॥ ८६५ । एलिङि । (६-४-६७) घुमास्थादीनामाकारस्य विङति लिङि परे एकार आदेशः । यथा-देवात् । स्थयात् । पेयात् । प्रत्यु०-(विङति' किम् ?) दासीष्ट। पासीष्ट ॥ ८६६ । वान्यस्य संयोगादेः। (६-४-६८) घुमास्थादिभ्योऽन्यस्य संयोगादेर्धातोरन्त्याकारस्य वा एत्वं क्ङिति लिङि । यथा-लेयात्, ग्लायात् । म्लेयात् , म्लायात् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२८९&oldid=347661" इत्यस्माद् प्रतिप्राप्तम्