एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये
[संज्ञा
उक्तौ स्थानाभ्यन्तरप्रयत्नौ ययोः साधारणौ, तौ वर्णौ मिथः
सवर्णावुच्येते । तथा च सूत्रम् –
७ । तुल्यास्यप्रयत्नं सवर्णम् । (१-१-९)
आस्यशब्देन मुखगतस्थानान्युच्यन्ते । स्थानप्रयत्नसाम्येऽपि

८ । नाज्झलौ । (१-१-१०)
-
स्वरव्यञ्जनयोर्न मिथः सावर्ण्यम् । अयमत फलितोऽर्थः -
स्थानप्रयत्नभिन्नेनोपाधिना यो वर्णोऽनेकधा भिद्यते, तस्य भेदप्रभेदा
मिथः सवर्णा इति । तादृशाश्च भेदाः स्वराणां मध्यमानां चैव; अतः
एकस्यैव स्वरस्य ह्रस्वदीर्घादयो मिथः सवर्णा: ; एवमनुनासिका अननु-
नासिकाश्च यवला मिथः सवर्णाः । वर्णान्तरेषु सावर्ण्यस्य न प्रसक्तिः ।
सवर्णेषु भेदेषु एकस विहितं कार्यम् अन्यस्यापि कर्तव्यम् । यथा-
अकारस्य यद्विधीयते तद् आकारखापि कर्तव्यम् । उकारस्य विहितम्
ऊकारस्यापीत्यादि । यत्र पुनरेकैस्यैव भेदस्य विधिर्विवक्ष्यते, तत्र स्वरेषु
तकारं योजयत्याचार्यः । यथा—अत्, इन्, एत् इत्यादि । एवं च
अ = सर्वविधोऽप्यकार:

अत् = ह्रस्वः अकारः । इ =

सर्वविधो-
१२
ऽपीकार: ; इत् = ह्रस्व इकार इत्यादि ।।
=
लौकिकीमत प्रदर्शितामक्षरमालां पाणिनिः क्रमभेदं कृत्वा
सूत्रात्मना निबध्नाति । यानि (सूत्राणि)
-
१. व्यापकजात्याक्रान्तस्य ।
२. व्याप्यजात्याकान्तस्यापि ।
३. उपात्तधर्मसमानाधिकरणजात्याक्रान्तस्यैव ।
४. यथा स्थूला वा, कृशा वा, कृष्णा वा, श्वेता वा गोगरेव ; तथा ह्रस्वो वा,
दीघों वा, उदात्तो वा, अनुदात्तो वा अकारोऽकार एवेति स्वरा जात्या ग्राह्याः । कृशा
गौरित्यादिवद्वशेषणस्य विवक्षायां तु तत्स्थान 'अत्' 'आत्' 'इत्' 'ईत्' इति
ह्रस्वदीर्घौ तकारं परं कृत्वा उच्यत इति व्यवस्था तन्त्रेऽस्मिन्कृतेति तत्त्वम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२९&oldid=347394" इत्यस्माद् प्रतिप्राप्तम्