एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रप्रकरणम् ] परिनिष्ठाकाण्डः । ८६७ । न ल्यपि । (६४-६९) घुमास्थादीनामात ईत्वं ल्यपि न । यथा— प्रदाय । प्रमाय । प्रस्थाय इत्यादि । - ८६८ । मयतेरिदन्यतरस्याम् । (६-४-७०) ल्यपि वा इत्वम् । यथा – अपमित्य | अपमाय । (२) गुणविधिः- Bu ८६९ । गुणोऽर्तिसंयोगाद्योः । (७-४-२९) ‘रिङ्शयग्लिङ्क्षु' इत्यतोऽनन्तरं सूत्रम् | ऋत इति, असार्व- धातुक इति, ये इति च वर्तते । अर्तेः संयोगादीनामृदन्तानां च यकि असार्वधातुकलिङि च गुणः । यथा— ऋ—अर्यते, अर्यात् । स्मृ – स्मर्यते, स्मर्यात् । - ८७० । यङि च । (७-४-३०) अर्तिसंयोगाद्योर्गुणो यङि च स्यात् । यथा – ऋ – अरार्यते । स्मृ— सास्मर्यते । अर्तेरजादित्वेऽपि 'अट्यर्त्यशूर्णोतीनामुपसंख्या ' -तत्वात् यङ् । यङि द्वित्वे – 'न न्द्रा...' इति रेफस्य द्वित्वनिषेधाभावश्च वार्त्तिकेन । ॥ ४ ॥ हन्तेर्हिसायां यङि घ्नीभावः ॥ भृशं हिनस्ति—जेघ्नीयते । अहिंसार्थे तु भृशं गच्छति–जङ्घन्यते । ८७१ । ई घ्राध्मोः । (७-४-३१) घ्राध्मोर्यङि इकारोऽन्तादेशः । जेघ्रीयते । दध्मीयते । (३) नलोपः- ८७२ । अनिदितां हल उपधायाः क्ङिति (नलोपः) । (६-४-२४) अनिदितां धातूनां मध्ये हलन्तस्योपधाया नकारस्य लोपः किङति प्रत्यये परे । यथा- धातुः खन्सु ध्वन्सु भञ्ज - २७१ - त्रस्तम् ध्वस्तम् भक्तम् यक् खस्यते ध्वस्यते भज्यते यडू सनीस्रयते । दनीध्वस्यते बाभज्यते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२९०&oldid=347662" इत्यस्माद् प्रतिप्राप्तम्