एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ लघुपाणिनीये प्रत्यु० - ('अनिदिताम्' किम् ? ) नदि नन्दितं ('हल:' किम् ? ) नीतम् ('उपधायाः' किम् ? ) नद्धम् नन्द्यते नीयते नह्यते [मिश्रप्रकरणम् नानद्यते । नेनीयते । नानह्यते । ८७३ | दंशसञ्जस्वञ्ज शपि । (६-४-२५) एषां शपि उपधानकारस्य लोपः । यथा – दर्शात, सजति, परिष्वजते । - ८७४ । रञ्जेश्च । (६-४-२६) - उपधानकारस्य लोपः शपि । यथा – रजति, रजतः, रजन्ति । ८७५ । घञि च भावकरणयोः । (६-४-२७) भावकरणार्थके घनि च रञ्जेरुपधानलोपः । यथा- रञ्जनं रागः । रज्यतेऽनेनेति च रागः । अन्यत्र तु– रज्यन्तेऽस्मिन्नित्यधिकरणार्थे रङ्गः । ८७६ । स्यदो जवे । (६-४-२८) स्यन्दतेर्घजि नलोप उपधादीर्घाभावश्च निपात्यते । जवभिन्ने त्वर्थे घृतस्यन्दः प्रवाह इत्यर्थः । ८७७ । नाश्चेः पूजायाम् । (६-४-३०) 'अञ्चु गतिपूजनयोः' इत्यनिदितो धातोः पूजायामर्थे न नलोपः । यथा- अञ्चितं = पूजितम् ! क्विपि -- प्राञ्चा, प्राङ्भ्यामित्यादि । - प्रत्यु० – ( 'पूजायाम्' किन् ?) उदक्तमुदकं कूपात् । उद्धृतमित्यर्थः । ८७८ । क्त्वि स्कन्दिस्यन्दोः । (६-४-३१) क्त्वाप्रत्ययेऽनयोर्नोपधानलोपः । स्कन्दित्वा । स्यन्दित्वा । .८७९ । जान्तनशां विभाषा । (६-४-३२) जकारान्तानां नशेश्व वा नलोपः क्त्वाप्रत्यये । यथा - रञ्ज–रक्त्वा, रङ्क्त्वा । नश–नष्टा, नंष्ट्वा । - (४) दीर्घः— ८८० | अनुनासिकस्य किझलोः क्ङिति । (६-४-१५) अनुनासिकान्तस्योपधाया दीर्घः कौ झलादौ किङति च । यथा- -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२९१&oldid=347663" इत्यस्माद् प्रतिप्राप्तम्