एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावकर्मप्रक्रिया] परिनिष्ठाकाण्डः । सूत्रम् । पदधातोः कर्तरि लुङस्तप्रत्यये (आत्मनेपदप्रथमपुरुषैकवचने) परे च्लेः चिणादेशः । सिचोऽपवादः ।। ८८५ | दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् । (३-१-६१) दीपादिभ्यः पूर्वोक्तं वा पक्षे सिच् ॥ ८८६ । अचः कर्मकर्तरि । (३-१-६२) अजन्ताद्धातोः कर्मकर्तरि लुङश्च्लेश्चिण् वा तप्रत्यये । कर्मकर्ता व्याख्यास्यते । प्राप्तविभाषेयम् । कर्मकर्तरि हि कर्मवद्भावातिदेशाचिण् भावकर्मणोरिति नित्यं प्राप्तम् । ८८७ । दुहश्च । (३-१-६३) कर्मकर्तरि लुङइच्लेश्चिण वा तप्रत्यये । न दुहस्नुनमामिति कर्मवत्कार्य- निषेधादप्राप्ते विभाषेयम् । ८८८ । न रुधः । (३-१-६४) रुधः कर्मकर्तरि लुङइच्लेश्चिन । ८८९ । तपोऽनुतापे च । (३-१-६५) तप्यतेः कर्मकर्तरि (भावे) अनुतापेऽर्थे च च्लेश्चिण्न । ८९० । चिण भावकर्मणोः । (३-१-६६) नेत्यस्य निवृत्त्यर्थं पुनश्चिणग्रहणम् । भावकर्मणोर्लुङश्लेश्चिण् तप्रत्यये । २७५ अथ चिपकार्यम्- Intern ८९१ । चिणो लुक् । (६-४-१०४) 'चिण्' इति पञ्चम्यन्तम् । चिण: परस्य प्रत्ययस्य लुक् । इति तप्रत्ययो लुप्यते । णिस्वादजन्तानामदुपधानां च वृद्धिः । इगुपधानां तु लघूपधगुणः । अथ सूत्राण्युदाहियन्ते-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२९४&oldid=347666" इत्यस्माद् प्रतिप्राप्तम्