एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८० [कर्मकर्तृप्रक्रिया लघुपाणिनीये ‘अधिगच्छति शास्त्रार्थः स्मरति श्रद्धाति च ' शास्त्रार्थः स्वयमेवाधिगमनस्मरणश्रद्धाविषयो भवतीत्यर्थः ॥ ८९८ । तपस्तपःकर्मकस्यैव । (३-१-८८) तप सन्तापे इत्यस्य कर्ता कर्मवत् स्यात्, तप इति कर्म प्रयुज्यते चेदेव । ‘सुखासिकामास्ते' 'सुखशायिकाः शय्यन्ते' इत्यादिवन्निजभा- वार्थकस्य कर्मस्थाने प्रयोगमात्रमिदम् । सकर्मकाणामितरेषां कर्मकर्तरि कर्मवद्भाव: प्रतिषिद्धो वार्त्तिककारेण । 'तपोऽनुतापे च' (८८९) इति चिण्निषेधोऽप्यत्रोक्तः । यथा— तप्यते तपस्तापसः- --अतप्त । प्रत्यु० – ( 'तपःकर्मकस्य' किम् ?) उत्तपति सुवर्ण सुवर्णकारः । ८९९ । न दुहस्नुनमां यक्चिणौ । (३-१-८९) एषां कर्मकर्तरि यचिणौ न । दुहः परं चिण् 'दुहश्च' (८८७) इति विक- ल्पितः । यथा-- दुग्धे । अदोहि, अदुग्ध, (लुग्वा दुहेति पक्षे लुक् ) अधुक्षत वा गौः स्वयमेव प्रस्तुते । प्रास्नोष्ट गौः स्वयमेव । नमते । अनंस्त दण्डः स्वयमेव । ९०० । कुषिरञ्जोः प्राचां श्यन् परस्मैपदं च । (३-१-९०) कुष निष्कर्षे, रञ्ज रागे इत्यनयोः कर्मकर्तरि श्यन् परस्मैपदं च प्राचां मते यथा- । कुष्यति पादः स्वयमेव । कुष्यते वा । रज्यति वस्त्रं स्वयमेव । रज्यते वा । यग्विषय एव परस्मैपदं बिधेः सन्नियोगशिष्टत्वात् । तेन अकोषि पाद इत्येव लुङ/दिषु । C 'अचः कर्मकर्तरि' (८८६) इति चिण्विकल्पः- अकारि, अकृत वा घटः स्वयमेव । ‘न रुधः’ (८८८) इति चिनिषेधः–अवरुद्ध गौः स्वयमेव ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२९९&oldid=347671" इत्यस्माद् प्रतिप्राप्तम्