एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ लघुपाणिनीये [पव्यवस्था अत्र वार्त्तिकं– परस्परोपपदाञ्चेति वक्तव्यम् । इतरेतरादिपद- प्रयोगेऽपि न । यथा- इतरेतरस्यान्योन्यस्य परस्परस्य वा व्यतिळुनन्ति । ९०५ । नेर्विशः । (१-३-१७) निपूर्वाद्विशतेरात्मनेपदम् । यथा – निविशते । - ९०६ । परिव्यवेभ्यः क्रियः । (१-३-१८) जित्त्वात् कर्त्रभिप्राये क्रियाफले सिद्धमेवात्मनेपदम् अकर्त्रभिप्रायेऽपि यथा स्यादित्यारम्भः । यथा – परिक्रीणीते । विक्रीणीते । अवक्रीणीते ॥ - ९०७ । विपराभ्यां जेः । (१-३-१९) विजयते, पराजयते । ९०८ । आङो दोऽनास्यविहरणे । (१-३-२०) आङ्पूर्वाद्ददातेर्मुखविकासनादन्यत्रार्थे तङानौ । आदत्ते विद्याम् । गृह्णाति । मुखं व्याददाति — विकासयति । - ९०९ । क्रीडोऽनुसंपरिभ्यश्च । (१-३-२१) अनुसंपरिभ्यः आङच क्रीडः तङानौ । अनुक्रीडते, संक्रीडते, परिक्रीडते, आक्रीडते । ॥ * ॥ समोऽकूजने इति वक्तव्यम् ॥ संक्रीडन्ति शकटानि – सशब्दं चलन्तीत्यर्थः । ॥ * ॥ आगमेः क्षमायाम् आत्मनेपदं वक्तव्यम् ॥ क्षमा = उपेक्षा, कालहरणमिति यावत् । आगमयस्व तावत् माणवकम् । क्षमस्व कञ्चित् कालम् । मा त्वरिष्ठा इत्यर्थः ।

॥ शिक्षेजिंज्ञासायाम् । शिक्षते विद्यासु । शक्तो भवितुमिच्छतीत्यर्थः। ॥ * ॥ आङि नुपृच्छयोरुपसंख्यानम् ॥ आनुते सृगालः । आपृच्छते गुरुम् । ॥ ॥ शप उपलम्भने ॥ वाचा शरीरस्पर्शनमुपलम्भनम् । तव पादाभ्यां शपे ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३०१&oldid=347674" इत्यस्माद् प्रतिप्राप्तम्