एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनिष्ठाकाण्डः । ९१० । समवप्रविभ्यः स्थः । (१-३-२२) सन्तिष्ठते, अवतिष्ठते, प्रतिष्ठते, वितिष्ठते । पदव्यवस्था] ९११ । प्रकाशनस्थेयाख्ययोश्च । (१-३-२३) स्वाभिप्रायप्रकटनं प्रकाशनम् । विवादपदनिर्णेता स्थेयः । तस्याख्यानं स्थेयाख्या | अनयोः स्थस्तङानौ । यथा- । गोपी कृष्णाय तिष्ठते - स्वाभिप्रायं प्रकाशयतीत्यर्थः । - 'संशय्य कर्णादिषु तिष्ठते यः' – कर्णादीन् निर्णेतृत्वेन आश्रयतीत्यर्थः । ९१२ । उदोऽनूर्ध्वकर्मणि । (१-३-२४) उत्साहादावर्थे उत्तिष्ठतेस्तङानौ । यथा - ‘उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यामिच्छता' । उत्तिष्ठमान उत्साहीत्यर्थः । कुटुम्बे उत्तिष्ठते—तदर्थं यतत इत्यर्थः । - ९१३ । उपान्मन्त्रकरणे । (१-३-२५) उपतिष्ठते सूर्य – सेवत इत्यर्थः । ९१४ । अकर्मकाच्च । (१-३-२६) यावद्भक्तमुपतिष्ठते सन्निधीयत इत्यर्थः । ९१५ । उद्विभ्यां तपः । (१-३-२७) अकर्मकादित्येव । उत्तपते, वितपते – दीप्यत इत्यर्थः । ९१६ । आङो यमहनः । (१-३-२८) अकर्मकादित्येव । आयच्छते–दीर्घीभवति । आहते ॥ * ॥ स्वाङ्गकर्मकाञ्चेति वक्तव्यम् || आयच्छते पाणिम् । आहते शिरः । २८३ ९१७ । समो गमृच्छिभ्याम् । (१-३-२९) अकर्मकादित्येव । सङ्गच्छते, समृच्छते । ॥ * ॥ अर्तिश्रुद्दशिभ्यश्चेति वक्तव्यम् । विदिप्रच्छिवरतीना- मुपसंख्यानम् ॥ सम्पृच्छते, संशृणुते, संवित्ते इत्यादि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३०२&oldid=347676" इत्यस्माद् प्रतिप्राप्तम्