एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८४ लघुपाणिनीये ९१८ । निसमुपविभ्यो ह्वः । (१ ३-३०) अकर्मकादिति निवृत्तम् । निह्वयते, संह्वयते इत्यादि । ९१९ । स्पर्धायामाङः । (१-३-३१) स्पर्धा सङ्घर्षः । मल्लो मल्लमाह्वयते । ९२० । गन्धनावक्षेपण सेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु [पदव्यवस्था कृञः । (१-३-३२) गन्धनम् अपकारप्रयुक्तं हिंसात्मकं सूचनम् । अवक्षेपणं भर्त्सनम् । सेवन- मनुवृत्तिः । प्रतियत्नः सतो गुणान्तराधानम् । प्रकथनं प्रकर्षेण कथनम् । उपयोगो 'धर्मादिप्रयोजने विनियोगः यथा -- गन्धने—उत्कुरुते उदाकुरुते सूचयतीत्यर्थः । - अवक्षेपणे—श्येनो वर्तिकामुदाकुरुते – भर्त्सयतीत्यर्थः । सेवने --- महामानानुपकुरुते – सेवत इत्यर्थः । साहसिंक्ये–परदारान् प्रकुरुते – तेषु सहसा प्रवर्तत इत्यर्थः । - - प्रतियत्ने—काण्डं गुडस्योपस्कुरुते – गुणान्तरमादधातीत्यर्थः । प्रकथने- -जनापवादान् प्रकुरुते — प्रकर्षेण कथयतीत्यर्थः । उपयोगे – शतं प्रकुरुते – धर्मार्थं विनियुक्त इत्यर्थः । - - प्रसहृनमभिभवः ९२२ । वेश्शब्दकर्मणः । (१-३-३४) क्रोष्टा विकुरुते स्वरान् । अन्यत्र विकरोति पयः । ९२१ । अधेः प्रसहने । (१-३-३३) शत्रुमधिचक्रे–अभिबभूवेत्यर्थः । ९२३ । अकर्मकाञ्च । (१-३-३५ ) वेः कृञ अकर्मकात् आत्मनेपदम् । विकुर्वते सैन्धवाः । वल्गन्तीत्यर्थः । ९२४ । सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणन- व्ययेषु नियः । (१-३-३६) उत्सञ्जनज्ञानविगणनव्यया नयतेर्वाच्याः । सम्माननाचार्यकरण- । = भृतयस्तु प्रयोगोपाधयः । सम्माननं = पूजनम् । नयते चार्वाको लोकायते । तन्मतसिद्धान्तमुपपत्त्योपदिश्य शिष्यांस्तत्र मेलयतीत्यर्थः । तेन च शिष्याणां तत्पूजा फलिता Gy । उत्सञ्जनमुत्क्षेपणम् –दण्डमुन्नयते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३०३&oldid=347677" इत्यस्माद् प्रतिप्राप्तम्