एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनिष्ठाकाण्डः । ९४३ । दाणश्च सा चेचतुर्थ्यर्थे । (१-३-५५) सा = तृतीया । ‘अशिष्टव्यवहारे दाणः प्रयोगे चतुर्ध्यर्थे तृतीया' इति वार्तिकम् । तद्विषय एव आत्मनेपदं च । दाण: शिति यच्छादेशः । दास्या संयच्छते कामुकः – अन्याय्यं दास्यै धनं यच्छतीत्यर्थः । - पदव्यवस्था | ९४४ । उपाद्यमः स्वकरणे । (१-३-५६) स्वकरणं परिग्रहः । भार्यामुपयच्छते ॥ ९४५ । ज्ञाश्रुस्मृदृशां सनः । (१-३-५७) सन्नन्तानामेषामात्मनेपदम् । यथा - जिज्ञासते, शुश्रूषते, सुस्मूर्षते, दिदृक्षते । - ९४६ । नानोईः । (१-३-५८) पूर्वेण प्राप्तस्य निषेधः । पुत्रमनुजिज्ञासति । ९४७ । प्रत्याभ्यां श्रुवः । (१-३-५९) सन्नन्तान्नेत्येव । आशुश्रूषति । प्रतिशुश्रूषति । ३८७ ९४८ । शदे शितः । (१-३-६०) शदे: शिति शीयादेश उक्तः । शीयते - अन्यत्र शत्यति ॥ ९४९ । म्रियतेर्लुङ्‌ङ्लिङोच । (१-३-६१) मृङो ङित्त्वप्रयुक्तमात्मनेपदमनेन नियम्यते । लुङलिङो: शिति प्रत्यये चैवेति । म्रियते, अम्रियत, म्रियताम् । म्रियेत । मृषीष्ट । अमृत । ९५० । पूर्ववत्सनः । (१-३-६२) सन्नन्तात् प्रकृतिधातोरिव पदम् । भू – बुभूषति । एध - एदिधिषते । ७५३ । आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य (१-३-६३) व्याख्यातम् । ९५१ । प्रोपाभ्यां युजेरयज्ञपात्रेषु । (१-३-६४) GDF प्रयुते, उपयुते । यज्ञपात्रसम्बन्धे तु द्वन्द्वं न्याश्चि पात्राणि प्रयुनक्ति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३०६&oldid=347680" इत्यस्माद् प्रतिप्राप्तम्