एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पदव्यवस्था] परिनिष्ठाकाण्ड: । ९७३ । अणावकर्मकाच्चित्तवत्कर्तृकात् । (१-३-८८) अण्यन्तो यो धातुरकर्मकश्चेतनकर्तृकश्च तस्माण्ण्यन्तात् परस्मै- पदम् । यथा - आस्ते देवदत्तः, देवदत्तमासयत्यन्यः । शेते बालः, तं माता शाययति । ९७४ । न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः । (१-३-८९) एभ्यो ण्यन्तेभ्यो न परस्मैपदम् । पूर्वसूत्रद्वयेन प्राप्तं निषिध्यते । यथा-पाययते, दमयते इत्यादि । २९१ ९७५ । वा क्यषः । (१-३-९०) लाहितायति, —लोहितायते । पटपटायति, पटपटायते । ९७६ । युद्भ्यो लुङि । (१-३-९१) द्युतादिभ्यो लुङि परस्मैपदं वा । परस्मैपदे 'पुषादिद्युतादि....' (४६१) इति च्लेरङ् । यथा — अद्युतत्, अयोतिष्ट । - ९७७ । वृद्भ्यः स्यसनोः । (१-३-९२) वृतु, शृधु, स्यन्दू, वृधु इत्येतेभ्यो वृतादिभ्यः खसनोर्वा परस्मै- पदम् । परस्मैपदे एष।मिनिषेधञ्चोक्तः ‘न वृङ्ग्यश्चतुर्भ्यः' (६५८) । यथा – वर्त्स्यति, अवर्त्स्यत्, विवृत्सति । वर्तिष्यते, अवर्तिष्यत, विवर्तिषते । - ९७८ । लुटि च क्लृपः । (१-३-९३) लुटि खसनोश्च क्लृपे: परस्मैपदं वा । 'तासि च क्लृप:' - (६५९) इति परस्मैपदे इनिषेधञ्चास्ति । यथा— कल्प्ता, कल्प्स्यति अकल्प्स्यत्, चिक्लृप्सति । कल्पिता, कल्पिष्यते, अकल्पिष्यत, विकल्पिषते । प्रचारलोपात् प्रचुराच्च कालात् पदव्यवस्थाविधयोऽत्र केचित् । कृच्छ्रात् समुन्नेयविवक्षितार्था जाताः, कथञ्चिद्विवृतास्तथापि ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३१०&oldid=347783" इत्यस्माद् प्रतिप्राप्तम्