एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९२ लघुपाणिनीये ॥ कृत्प्रकरणम् ॥ तथा च सूत्रम्— धातुभ्यः किल द्विविधाः प्रत्यया उत्पद्यन्ते—तिङः कृतश्चेति [कृत्प्रकरणम् ९७९ । धातोः । (३-१-९१) अधिकारोऽयं तृतीयाध्यायसमाप्तौ 'लस्य' इत्यधिकारपर्यन्तम् । ९८० । तत्रोपपदं सप्तमीस्थम् । (३-१-९२) तत्व एतस्मिन् धात्वधिकारे यत् सप्तमीनिर्दिष्टं तद्वाचकमुपपदसंज्ञ स्यात् । समीपे प्रयोक्तव्यं समर्थ पदमुपपदमित्युच्यते । तच्च धात्वधि कारे सप्तम्या निर्दिश्यत इति सूत्रस्यार्थः । तत्र च कृत्प्रत्ययविधिषु उप- पदानां धातुभिः सह समासो वक्ष्यते ' उपपदमतिङ्' इति । तिङा वाक्यमेव || ९८१ । कृदतिङ् । (३-१-९३) धात्वधिकारे तिङ्वर्जितः प्रत्ययः कृत्संज्ञ: स्यात् । तिङ्शब्देन च तत्स्थानिनो लकारा विवक्षिताः । एवं च धात्वधिकारे लकारा कृत्प्रत्ययाश्चैव विधीयन्ते । अधिकारात् बहिस्तु धातोर्धात्वन्तरनिष्पादका ‘संश्च क्यच्क्यङ्क्यष' इति परिगणिता एकादश प्रत्ययाः, शबा दीनि विकरणानि, खतासादीनि संस्करणानि च विहितानि || ९८२ । वासरूपोऽस्त्रियाम् । (३-१-९४) वा असरूप इति च्छेदः, । सरूप: समानरूप: । केनेत्याकाङ्क्षा याम् अर्थादुत्सर्गेणेति सिध्यति । अस्मिन् धात्वधिकारे भिन्नरूपोऽपवाद प्रत्ययो विकल्पेनैव उत्सर्गे बाधते 'स्त्रियाम्' इत्यधिकारं वर्जयित्वा १. समर्थ = सङ्गतार्थ = सान्वयम् । -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३११&oldid=347784" इत्यस्माद् प्रतिप्राप्तम्