एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृत्प्रकरणम् ] परिनिष्ठाकाण्डः । २९३ - प्रक्रियाकार्यसम्पादनार्थं समानाकृतिरेवापवादः कदाचिदनुबन्धभेदेन यत्र निबध्यते तत्रैवोत्सर्गापवादन्यायः सञ्चारणीयो न तु भिन्नाकाराणां प्रत्ययानां विधिष्वित्यर्थः । यथा – अत्र धात्वधिकारे कृत्यसंज्ञकाः तव्य, अनीयर्, यत्, ण्यत्, क्यप् इति पञ्च प्रत्यया एकस्मिन्नेव निमित्ते विधीयन्ते । तत्र तव्यानीयरौ (भिन्नरूपौ) यत् ण्यत् - क्यप्सु (सरूपेषु) यथाप्राप्तमेकतमश्च सर्वेभ्योऽपि धातुभ्यो भवेयुः । तव्यस्थानीयर् न बाधकः, नापि तयोर्यत् ण्यत् - क्यप्स्वेकः, एकैकस्यापि भिन्नरूपत्वात् । यत् ण्यत् - क्यपस्तु सरूपत्वादुत्सर्गस्य बाधका एव । तथा च कृधातोः – कर्तत्र्य, करणीय, कार्य ( ण्यत्) इति त्रयः कृत्यप्रत्यया भवन्ति । नीधातोः नेतव्य, नयनीय, नेय (यत्) इति त्रयः इत्यादि । यथा सिद्धाश्रमेष्वहिनकुलादयो नैसर्गिकं विरोधमुत्सृज्य सह्रैकत्र समा- विशन्ति तथा धात्वधिकारे उत्सर्गापवादावपीति फलितम् || - - - इह किल क्रियाया अवस्थाभेदा भवन्ति । यथा - १. पश्याश्वो धावति । ४. पश्याश्वो धावितुं कर्णपुटमा यच्छते । ५. पश्य धावनमश्वस्य । २. पश्य धावन्तमश्वम । ३. पश्याश्वो धावित्वा मुद्गमश्नाति । ६. पश्य धावितुरश्वस्य गतिवेगम् । एषु प्रथमवाक्ये धावनक्रिया प्राधान्येन स्वातन्त्र्येण च विशेष्यतया अवभासते । द्वितीयतृतीयचतुर्थेष्वपि प्राधान्यस्य न महती क्षति:, किन्तु न स्वातन्त्र्येण प्रतिभानम् । द्वितीये 'अश्वम्' इति नामपदस्य, तृतीयचतुर्थयो: 'अनाति' 'आयच्छते' इति क्रियापदस्य च विशेषणी- भावेन तदर्थे न्यग्भावात् । पञ्चमषष्ठयोः पुनः धावनक्रियायाः क्रेयात्वमेव तिरोहितम् । वाक्ययोरनयोः श्रवणे पूर्ववाक्यानां श्रवण व अश्वेन कृतं पादानामायमनं, तेषां पुरःपुरः प्रक्षेपः, तेन च व्यापा- ण क्रमशो देशाक्रमणं च प्रत्यक्षमुपलभ्यमानमिव मनसि प्रत्यायक- प्रत्यायक- अनुभवं नाङ्कुरयति, किंतु सिद्धां पूर्वानुभवसंस्काररूपिणीं धावनक्रिया-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३१२&oldid=347785" इत्यस्माद् प्रतिप्राप्तम्