एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९६ आख्यातम् । भोक्ष्य इति व्रजति । पूर्वम् अभुक्त ततो व्रजति । लघुपाणिनीये [कृतामर्थव्यवस्था आख्यातकम् । भोक्तुं व्रजति । भुक्त्वा व्रजति । अश्व आरोक्ष्यते इत्यलंक्रियते । अश्वः पूर्वमलमकारि तत आरुह्यते । अश्व आरोढुमलंक्रियते। अश्वोऽलंकृत्यारुह्यते । तेषां कर्तरिप्रयोगे कर्मणिप्रयोगे च रूपभेदोऽपि नास्तीत्युदाहरणे स्पष्टम् । कर्मणि । प्रत्ययान् विधास्यामः ॥ आख्यातकानि कृत्प्रत्ययान्तत्वेन प्रातिपदिकत्वात् सुबन्तानि | तेषु नामविशेषणानां विशेष्यभूतनामानुरोधेन लिङ्गविभक्तिवचनानि भवन्ति । क्रियाविशेषणानि तु विशेष्यभूतायाः क्रियाया लिङ्गाद्ययोगा- दव्ययानि, अव्ययत्वे च सुपां लुग्भवति || } कर्तरि । एवमनेकधा दर्शितविभागान् प्रत्ययान् अक्षरलाघवमात्रदत्तदृष्टिः पाणिनि: ‘कृदतिङ्' इति प्रक्रियासम्पादनार्थ एकमेव विभागं परिकल्प्य व्यामिश्रमेव विदधाति धात्वधिकारे । अतोऽत्र सूवाणामानुपूर्व्या व्या- ख्यानं सुकरमप्युपेक्ष्य उक्तविभागानुसारेणैव तेषां विवरणमस्माभिरार- भ्यते । प्रथमं साध्यक्रियावाचिन आख्यातककृत्प्रत्ययाः । तदनन्तरं सिद्धक्रियावाचिषु कारककृत्प्रत्ययाः । ततश्च भावकृत्प्रत्यया इति क्रमो भविष्यति ।। आचार्येणाधिकारान्ते कथितामर्थव्यवस्थामप्युक्त्वा यथाप्रतिज्ञातं कृतामर्थव्यवस्था || ९८३ । कर्तरि कृत् । (३-४-६७) कृत्प्रत्यय: कर्तर्यर्थे स्यादित्युत्सर्गः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३१५&oldid=347788" इत्यस्माद् प्रतिप्राप्तम्