एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] शिक्षाकाण्डः ।

१. अण् इति मूलस्वराणां प्रत्याहारः,
२. अक् " संध्यक्षरभिन्नानां स्वराणां "
३. एच् " संध्यक्षराणां "
४. अट् " स्वराणां हस्य लभिन्नमध्यमानां च "
५. झल् " वर्गेष्वाद्यानां चतुर्णामूष्मणां च "
६. खर् " खरातिखरोष्मणां "
७. चर् " खरोष्मणोः " इत्यादि ।

एवं प्रत्ययादिष्वपि इत्करणेन तत्तदस्ति प्रयोजनम् । अथ
कीदृशा वर्णा इत इति विवेचनार्थमित्संज्ञाविधिरुच्यते ॥

१० । उपदेशेऽजनुनासिक इत् । (१-३-२)
शास्त्रप्रवर्तकानां प्रत्यक्षमाख्यानमुपदेशः । स च प्राय: आग-
मादेशधातुगणपाठप्रत्ययप्रत्याहारसूत्ररूपः । तेषु अनुनासिको योऽच्
(स्वरः) स इत् स्यात् । अनुनासिकत्वेनोच्चारणं कालक्रमेण लुप्तम् ;
इदानीं यस्य इत्संज्ञा अपेक्षिता तस्य स्वरस्य अनुनासिकत्वं प्रतिज्ञायत
इत्येवं संप्रदायः । धातुपाठे 'एध' 'स्पर्ध' ‘वद' इत्यादिष्वकारः,
‘चक्षिङ्' इत्यादाविकारः, 'कटे' इत्यादौ एकार:, 'गुपू' इत्यादा-
वूकारः इत्यादय इत्संज्ञा: । 'नुक्', 'नुट्', 'पुक्', 'नुम्' इत्याद्याग-
मेषु उकार इत् । प्रत्ययादिषु च अनुनासिकत्वप्रतिज्ञानेनाचामित्संज्ञा
विरलास्ति । 'शतृ' - प्रत्यये ऋकार: 'मतुप्' - प्रत्यये उकारश्च इत् ॥
११ । हलन्त्यम् । (१-३-३)

उपदेशेऽन्त्यं हल् (व्यञ्जनम्) [१] इत् स्यात् । अत एव प्रत्याहार-
सूत्रेषु अन्त्यव्यञ्जनानां णकारादीनामित्संज्ञा । एवम् 'नञ्' ‘आङ्'

 

  1. १. इता प्रत्याहारस्य प्रत्याहारेण इतश्च विधानं शाकटायनादिप्राचीनवैयाकरणसंके-
    तावलम्बेन । अन्यत्रापि 'औङ आपः' इत्यादौ प्राचीनसंज्ञाभिर्व्यवहरत्याचार्यः । अतो
    नान्योन्याश्रयदोषस्यात्र प्रसक्तिः ।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३२&oldid=399911" इत्यस्माद् प्रतिप्राप्तम्