एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आख्यातकानि] परिनिष्ठाकाण्डः । ३०१ आचक्षाण (अदादि), जुह्वत् (जुहोत्यादि), रुन्धत् रुन्धान (रुधादि), कुर्वत् कुर्वाण ( तनादि), इत्यादि विकरणभेदा उदाहार्या: । अनुक्तचरी परं प्रक्रिया प्रदर्श्यते- ९९४ । आने मुक् (अतः) । (७-२.८२) अदन्ताङ्गस्य भुगागम आनप्रत्यये परे । अनेन शपश्यनशवि- करणेषु अङ्गस्यादन्तत्वान्मुक् । यथा- एध – एधमानः । व्याप्रि– व्याप्रियमाणः । पच - पचमानः इत्यादि । ९९५ । ईदासः । (७-२-८३) स आसधातोः परस्य आनस्य ईदादेशः । ‘आदे: परस्य' इति आकारस्य ईत्वम् । आस्–आसीनः । ९९६ । विदेः शतुर्वसुः (वा) । (७-१-३६) विद ज्ञाने इत्यस्माच्छतृप्रत्ययस्य वस् इत्यादेशो वा । विद्वस्- विद्वन्, विद्वान्-विदती, विदुषी कर्मणि लट आत्मनेपदत्वात् शानजेव । - पच्यमान, क्रियमाण, रुध्यमान, उच्यमान इत्यादीनि रूपाणि । ९९७ । लक्षणहेत्वोः क्रियायाः । (३-२-१२६) क्रियाया लक्षणे हेतौ वा द्योत्येऽपि लटश्शतृशानचौ । अधिकार्थ- द्योतनविधानार्थमारम्भः । यथा— लक्षणे – शयाना भुञ्जते यवनाः – अत्र शयनं लक्षणं भोजनस्य । हेतौ अर्ज- यन् वसति — अत्रार्जनं हेतुर्वासस्य । ९९८ । तौ सत् । (३-२-१२७) तौ शतृशानचौ सत्संज्ञौ स्तः || अथ लडादेशः—“ लट्छेषे च" इति लड्डिध्यनन्तरं सूत्रम्- ९९९ । लुटः सदा । (३-३-१४) लट: सदाख्यौ शतृशानचौ वा स्तः । व्यवस्थितविभाषेयम् । तेन लडादेशवत् अप्रथमासामानाधिकरण्ये लक्षणहेत्वोश्च नित्यम् । लडादेशत्वात् स्यप्रत्ययो विकरणम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३२०&oldid=347793" इत्यस्माद् प्रतिप्राप्तम्