एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आख्यातकानि] अथ लुस्थानीया निष्ठा- परिनिष्ठाकाण्डः । १००५ । क्तक्तवतू निष्ठा । (१-१-२६) क्तश्च क्तवतुश्च निष्ठासंज्ञ: स्यादिति संज्ञाध्याये निष्ठासंज्ञा विहिता । अथ धात्वधिकारे प्रकृते 'भूते' इत्यनुवर्तमाने- १००६ । निष्ठा । (३-२-१०२) भूतसामान्यार्थवृत्तेर्धातोः क्त- क्तवतू भवतः । लड्-लिड्-लस्विव विकरण।दिकार्याणामनपेक्षया निष्ठां लकारादेशं न कृतवानाचार्यः । लादेशत्वं यद्यपैक्षिष्यत तर्हि लुङादेशत्वमस्य प्राप्स्यदिति लुस्थानीयेयं कल्पितास्माभिः । अप्रथमासामानाधिकरण्य एव निष्ठापि भवति । प्रथमासामानाधिकरण्ये तु लुङ एवावकाशः । अनयोः क्तप्रत्यय: सामा- न्येन भावकर्मणोः, गत्यर्थेभ्योऽकर्मकेभ्यश्च कर्तर्यपि । क्तवतुस्तु कर्तर्येव इत्याद्यर्थव्यवस्था पूर्वोक्तात्रानुसन्धेयां । यथा- भू–भूतः, - ता, –तम् । एध - एधितः, धिता, धितम् । ग्रन्थं कृतवान् कालिदासः – कर्तरि । कालिदासेन कृतो ग्रन्थः --- ग्रामं गतो देवदत्तः गतो प्रामो देवदत्तेन

---कर्मणि ।

—कर्तरि । - कर्मणि । - - दो अवखण्डने —दित, - ४३०३ - ‘श्रचुकः किति' (६७३) इति इनिषेध: – श्रित, भूत, कृत । 'यस्य विभाषा' (६७६) इति इनिषेधः – धूत, वृद्ध, गूढ । इत्यादयः प्रक्रिया अत्र स्मर्तव्याः | नवीना अप्युच्यन्ते- । शयितो बाल:-

-कर्तरि ।

शयितं बालेन – भावे । जृम्मितमसूयया- १००७ । द्यतिस्यतिमास्थामित्ति किति । (७-४-४०) एषाम् इकारोऽन्तादेश: स्यात् तादौ किति प्रत्यये परे । यथा- क्तवतु दितवत् क्त्वां दिवा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३२२&oldid=347795" इत्यस्माद् प्रतिप्राप्तम्