एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०४ क्त सो अन्तकर्मणि-सित, मा माने - मित, स्था गतिनिवृत्तौ–स्थित, लघुपाणिनीये क्तवतु सितवत् मितवत् स्थितवत् यथा - प्र + दात क्त्वा सित्वा मित्वा स्थित्वा १००८ । शाच्छोरन्यतरस्याम् । (७-४-४१) अनयोः पूर्वोक्तं वा । यथा – शित, शात । छित, छांत । १००९ । दधातेर्हिः । (७-४-४२) [आख्यातकानि क्तिन् सितिः । मितिः । स्थितिः । ति कितीत्येव । यथा -- हित, हितवत् | हित्वा, हिति । १०१० । जहातेश्च क्त्वि । (७-४-४३) हित्वा । जिहीतेस्तु — हात्वा । १०११ । दो दद्धोः । (७-४-४६) घुसंज्ञम्य दाधातोर्दद् इत्यादेशः तादौ किति । यथा— दत्त, दत्तवत् । दत्त्वा, दत्तिः । घोरित्युक्तेः–दाप् लवने इत्यस्य दातं बर्हिः । दैप् शोधने–अवदातं मुखम् इत्येव । १०१२ । अच उपसर्गात्तः । (७-४-४७) अजन्तादुपसर्गात् परस्य घुसंज्ञस्य दाधातो: त इत्यादेशः तादौ किति । ददादेशापवादोऽयम् । अकार उच्चारणार्थ: । त् इत्येवादेशः । = प्रत्त । अव + दात = अवत्त । आ + दात = आत्त । . “अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि । सुदत्तमनुदत्तं च निदत्तमिति चेष्यते ॥ १ - अथ नत्वविधिरसिद्धकाण्डोक्तः १०१३ । रदाभ्यां निष्ठातो नः पूर्वस्य च दः । (८-२-४२) १. इगन्तोपसर्गस्य तु तादेशे कृते 'दस्ति ' (६-३-१२४) इति दीर्घोत नीत्त, सूत्त इत्यादिकमुदाहरणम् । इति दीर्घौ भवति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३२३&oldid=347896" इत्यस्माद् प्रतिप्राप्तम्