एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आख्यातकानि] परिनिष्ठाकाण्डः । रेफदकाराभ्यां परस्य निष्ठातकारस्य नकारः स्यात् निष्ठापेक्षया पूर्वस्य धातुदकारस्य च । स्वतो रेफान्तधातूनां सेटत्वेन रेफात् परस्य तकारस्य असम्भवात् ऋकारान्तधातव एवात्रोदाहरणम् । ते च 'ऋत इद्धातोः' इति इदादेशे रपरे रेफान्ता भवेयुः । यथा— कृ – किर्— कीर्ण कीर्णवत् ‘हलि च' इत्यपधादीर्घः । गृ - गिर्- गीणं मीर्णवत् पृ- पुर्- ('उदोष्ठ्यपूर्वस्य') पूर्ण–पूर्णवत् । - "" भि – भिन्न–भिन्नवत् । छिद् — छिन्न-छिन्नवत् । सेटां तु इटा व्यवधानात्- चर – चरित, मुद – मुदित इत्येव । - १०१४ । संयोगादेरातो धातोर्यण्वतः । (८-२-४३) संयोगादिर्यो धातुराकारान्तो यणसहितश्च तस्मात् परख निष्ठा- never way are तकारस्य नकारः । यथा— 300 D57 विद्रा – विद्राण – विद्राणवत् । म्ला — म्लान—म्लानवत् । प्रत्यु० – ('यण्वतः' किम् ? ) - ग्ला — ग्लान – ग्लानवत् । 69 श्या —— श्यान — श्यानवत् । - स्ना - -स्नात -स्नातवत् । ('संयोगादे:' किम् ? ) या - यात - यातवत् । १०१५ । ल्वादिभ्यः । (८-२-४४) एभ्यो निष्ठातकारस्य नः । यथा- - लू – लून, लूनवत् । धू-धून, धूनवत् । १०१६ । ओदितश्च । (८-२-४५) भुजो – भुग्नं, भुग्नवत् । ओ हाक् – हीन, हीनवत् । ओ लज्जी-लग्न, लग्नवत् । ओ विजी—विग्न, विग्नवत् । ‘स्वादय ओदितः' इति गणसूत्रात् ३०५ सू—सून, दू—दून, डी – डीन इत्यादि । १०१७ । शुषः कः । (८-२-५१) १०१८ । पचो वः । (८-२-५२) 19 शुष्कः । फ्क्वः । 20

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३२४&oldid=347897" इत्यस्माद् प्रतिप्राप्तम्