एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आख्यातकानि ] परिनिष्ठाकाण्डः । १०३७ । ऋदुपधाच्चाक्लृपिचृतेः । (३-१-११०) यथा - ऋतु – वृत्यम् । वृधु — वृध्यम् । मृग — मृग्यम् । क्ऌपेस्तु कल्प्यम् । - १०३८ । ऋहलोर्ण्यत् । (३-१-१२४) ऋवर्णान्ताद्धलन्ताच्च ण्यत् । 'अचो यत्' अनेन बाध्यते । यथा- ऋ – हृ – हार्यः, र्या, र्यम् । णित्त्वाद्वृद्धिः । हल्– चल — चाल्यः, - ल्या, – ल्यम् । " १०३९ । ओरावश्यके । (३-१-१२५) आबश्यकेऽर्थे द्योत्ये उवर्णान्तादपि ण्यत् । यतोऽपवादः । यथा- भू – भव्यिम् – अवश्यं भवितुं योग्यन् | भव्यमन्यत्र । श्रु – श्राव्यम्" श्रोतुं उभयत्रापि ‘वान्तो यिप्रत्यये' (१०२६) इत्यवावादेशौ ।। श्रव्यमन्यत्र | ३०९ अथ ण्यति कुत्वमुच्यते- - १०४० । च- जोः कु घिण्ण्यतोः । (७-३-५२) चकारजकारयोः कवर्गादेशो घिति प्रत्यये ण्यति च । यथा- घित् - घञ् पाक: सर्गः धातुः पच सृज ण्यत् पाक्यम् सर्ग्यम् १०४१ । न क्कादेः । (७-३-५९) कवर्गादेर्धातोर्घिण्ण्यतोः परयोश्चजोः कुर्न । यथा- कूज – कूज्यं, कूजः । गर्ज— गर्ज्यम्, गर्ज: 1 १०४२ । अजि-व्रज्योश्च । (७-३-६०) कुत्वं न । समाज, परिव्राज्यम् इत्यादि । १०४३ । ण्य आवश्यके । (७-३-६५) आवश्यकार्थे द्योत्ये ण्यति चजोः कुर्न । अवश्यपाच्यम् । १०४४ | यजयाचरुच प्रवचर्चश्च । (७-३-६६) याज्य:, याच्य, रोच्यः, प्रवाच्यः, अर्च्यः । घिति तु याग इत्यादि त्यजिपूज्योश्च —त्याज्य, पूज्यः । - - इत्यादि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३२८&oldid=347901" इत्यस्माद् प्रतिप्राप्तम्