एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१० लघुपाणिनीये १०४५ । वचोऽशब्दसंज्ञायाम् । (७-३-६७) नेत्येव । अन्वितपदसाङ्घतो वाक्यम् । अन्यत्र वाच्यम् ॥ १०४६॰ प्रयोज्यनियोज्यौ शक्यार्थे । (७-३-६८) योग्यार्थे तु प्रयोग्यः, नियोग्य इत्येव || १०४७ । भोज्यं भक्ष्ये । (७-३-६९) भोज्यमन्नम् | भोग्यं सुखम् ॥ अथ लोट्स्थानीयाः— १०४८ । ईषहुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल् | (३-३-१२६) कृच्छ्राकृच्छ्रार्थेषु ईषहुस्सुषु निपातेषूपपदेषु धातोः खल् प्रत्ययः । 'तयोरेव कृत्यक्तखलर्था:' (९८५) इति भावकर्मणोरेव । खकार इत ह्रस्वमुमागमाद्यर्थः । ते चानुपदं वक्ष्यन्ते । यथा— ईषत्करः, -रा, -रम्-अनायासेन कर्तुं शक्यः दुष्करः, - रा, रम् - आयासेन सुकरः, - रा, रम्- अनायासेन एवं जि— ईषजयः, दुर्जयः, सुजयः इत्यादि । १०४९ । कर्तृकर्मणोश्च भूकुञो: । (३-३-१२७) ईषद्दुस्सुभिः सह भवतेः कर्तृवाचिनि सुबन्ते, कृञः कर्मवाचके चोपपदेऽपि खल् । अभूततद्भाव एवेदमिति वार्त्तिककारो नियमं कृतवान् । ईषदाढ्यंभवं व्यवसायिना— अनाढ्यो व्यवसायी सुखमाढ्यो भवितुं शक्नोतीत्यर्थः स्वाढ्यंकरः सेवको राज्ञा । दुराढ्यंकरोऽलसः । एषु मुमागमोऽनुपदं विधास्यते || - - [आख्यातकानि " १०५० । आतो युच् । (३-३-१२८) खलोऽपवादः । 'यु' इत्यक्षरम् 'अन' इत्यस्य प्रतिनिधिः क्रियते गथा ‘झ' इति 'अन्त' इत्यस्य । एवं फ ढ घ छ ठ ख इति वर्णा अपि तद्धितेषु प्रतिनिधित्वेनोपयुज्यन्ते । तथा च सूत्राणि-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३२९&oldid=347902" इत्यस्माद् प्रतिप्राप्तम्