एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आख्यातकानि] परिनिष्ठाकाण्डः । १०५१ । युवोरनाकौ । (७-१-१) , प्रत्ययावयवस्य 'यु' इत्यस्य 'अन' इति 'वु' इत्यस्य ‘अक इत्यप्यादेशौ । युच्, ल्युट्, टयु, ण्वुल्, वुञ्, वुन् इत्यादिष्वनु- बन्धासज्जनसौकर्यार्थम् आदेशकल्पनमिति प्रतिभाति ॥ [१०५२ | आयनेयीनीयियः फ ड-ख - छ-घां प्रत्ययादीनाम् । (७-१-२) प्रत्ययादिभूतानां फादीनाम् आयनादय आदेशाः । यथा - फ = आयन । ढ = एय | ख = ईन । छ = ईय। घ= इय । = = कृत्सु ख-घयो: ‘लशक्वतद्धिते' इतीत्संज्ञया 'खल्' 'घन्' इत्यादिषु नैते आदेशाः ] - 'अनेन युचो युकारस्य अनादेशः । पा- ईषत्पानः, सुपान: दुष्पानः इत्यादि । अथ खाढ्यम्भवं इत्यादौ मुमागमविधानाय खित्त्वप्रयोजनान्यु- च्यन्ते- ३११ १०५३ । खित्यनव्ययस्य । (हस्व:) (६-३-६६) खिदन्ते उत्तरपदे अव्ययभिन्नस्य पूर्वपदस्य ह्रस्वः । यथा— peopatr या कालीमात्मानं मन्यते सा कालिंमन्या । अत्र 'मन्य' इति खिदन्तम् । - १०५४ । अरुद्विषदजन्तस्य मुम् । (६-३-६७) अरुस्, द्विषत् इत्यनयोरजन्तानां च खिदन्ते उत्तरपदे मुमा- गमः । यथा- अरुस् + तुद अरुन्तुदः । द्विषत् + तप = द्विषन्तपः । ईषदाढ्यम्भवम् । स्वाढ्यङ्करः । काली + मन्या= कालिम्मन्या । दुराढ्यङ्करः । १०५५ । इच एकाचोऽम्प्रत्ययवच्च । (६-३-६८ इजन्तस्यैकाचः पूर्वपदस्य खिदन्ते उत्तरपदे अम् स्यात्; स च =

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३३०&oldid=347904" इत्यस्माद् प्रतिप्राप्तम्