एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आख्यातकानि] परिनिष्ठाकाण्डः । ३१५ 'ऊरीकृत्य' इत्यादौ 'ह्रस्वस्य पिति कृति तुक्' (१०३३) । 'अनुदात्तोपदेश-' (५५९) इत्यनुनासिकलोपो ल्यपि १०६९ । वा ल्यपि । (६-४-३८) इति सूत्रेण विकल्प्यते । तेन-प्रणम्य - प्रणत्य, सङ्गम्य-सङ्गत्य इत्यादि रूपाणि । अनुनासिकलोपे ह्रस्वान्तत्वात् तुकू । प्रक्रियान्तराणि पूर्वमेवोक्तानि ॥ १०७० । अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा । (३-४-१८) प्रतिषेधवाचिनोरलङ्घल्वोरुपपदयोः प्राचां मते क्त्वा स्यात् । सिद्धभावार्थ एवायमुपपद्यते उपपदानुरोधात् । यथा - अलमुक्त्वा, खलूक्त्वा – वचनं मास्त्वित्यर्थः । मतान्तरे तु अलं रोदनेन । १०७१ । परावरयोगे च । (३-४-२०) = परावरौ = दूरसन्निहितौ । तद्योगे च क्त्वा स्यात् । पूर्वकाल एव हि क्त्वा विहितः । अनेन पर्वदेशेऽपि विधीयते । यथा- ऋात्वा नदीं पर्वतः नद्याः पारे इत्यर्थः । अवारे,, अक्रान्त्वा समानकर्तृकयोः पूर्वकाले । (३-४-२१) (व्याख्यातम् – १०५९) = १०७२ | आभीक्ष्ण्ये णमुल् च । (३-४-२२) आभीक्ष्ण्यं = पौनःपुन्यम् । तस्मिन् द्योत्ये समानकर्तृकयोः पूर्व- काले णमुल क्त्वा च स्याताम् । आभीक्ष्ण्येऽर्थे पदद्वित्वं वक्ष्यते । यथा— स्मारं स्मारं - स्मृत्वा स्मृत्वा वा नमति शिवम् । "" १०७३ । कर्मण्याक्रोशे कृञः खमुञ् । (३-४-२५) कर्मण्युपपदे आक्रोशे द्योत्ये कृञः खमुज्प्रत्ययः । खित्त्वात् उपपदस्य हस्व- सुमागमादयः । यथा चोरङ्कारमाक्रोशति । भीरुङ्कारमाक्रोशति । चोरेऽसि, भीरुरसीत्याक्रोशतीत्यर्थः १०७४ । अन्यथैवंकथमित्थं सुसिद्धाप्रयोगश्चेत् (णमुल्) । (३-४-२७) अन्यथादिषूपपदेषु कृञः स्वार्थे णमुल् । यथा – अन्यथाकारम्, इत्थङ्कारमित्यादि । मिल ,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३३४&oldid=347908" इत्यस्माद् प्रतिप्राप्तम्