एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [ कर्बर्थककृत्प्र ० J भोक्तुं स्नाति — भोजनार्थकं स्नानम् | भोक्तुमागच्छति देवदत्तः, भोजको वा । भोक्तुमागच्छति गार्गी, -- भोजिका वा । भोक्तुमागच्छतो देवदत्तस्यानं न लब्धं, भोजकस्य वा । भोक्तुमागच्छन्त्या गार्ग्या अन्नं न लब्धं, भोजिकया वा । तण्डुलान् पक्तुमानयति — कर्तरि | तण्डुलाः पक्तुमानीयन्ते कर्मणि । स्वप्तुं शेते — कर्तरि । स्वप्तुं शय्यते – भावे । - ३२० अयमेवाभिप्रायः ‘अव्ययकृतो भावे' इति सिद्धान्तस्य | भो- ऋतुमिच्छति, भोक्तुं काल: इतीच्छार्थेषु कालपर्यायेषु चोपपदेषु तुमुन् विधास्यते ।। कर्त्रर्थककृत्प्रत्ययाः ॥ कर्त्रर्थककृत्सु क्रिया सिद्धा। आख्याताख्यातकयोः क्रिया साध्येति भेदः । आख्यातसंज्ञा, आख्यातकसंज्ञाः, कृत्संज्ञाः वा भवन्तु कर्तृकर्म- भावेष्वेव धातोः प्रत्यया विधीयन्ते । क्रियायाः सिद्धत्वसाध्यत्वाभ्यामेव भेदोपलब्धिः । आख्याताख्यातकाभ्यां यद्यपि कर्तृकर्मणी अभिधीयेते तथापि आख्याते. अव्ययाख्यातके च भाव एव विशेष्यम् । यथा- ‘देवदत्तः पचति' इत्यत्र देवदत्तकर्तृकं वर्तमानकालिकं पचनमित्येव बोध: । न तु वर्तमामकालिकपचनकर्ता देवदत्त इति । तथा च भर्तृहरिः—— - ‘फलव्यापारयोर्धातुराश्रये तु तिङः स्मृताः । फले प्रधानं व्यापारस्तिङर्थस्तु विशेषणम् ॥' फलानुकूलो व्यापारो धात्वर्थः । व्यापारफलयोराश्रयभूतं कारकं कर्ता कर्म वा तिङाभिधीयते । फलापेक्षया व्यापार एव प्रधानम् । तिर्थ- भूतं कारकं तु विशेषणमेव । इदमेवाभिप्रेत्योच्यते – 'भावप्रधानमा- ख्यातम्' इति । अनव्ययाख्यातकानां कारकुकृतां च कारकं प्रधानम् । भावार्थकानां सिद्धात्मा भावश्च ॥ च कारकं प्रधानम् ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३३९&oldid=347933" इत्यस्माद् प्रतिप्राप्तम्