एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ]
शिक्षाकाण्डः ।
ते सिद्धेषु पदेषु नोच्चारणीया इत्यर्थः । चिह्नमात्रमित्, न तु प्रत्ययादीनां
वस्तुतो घटको वर्ण इति तात्पर्यम् ॥
संज्ञान्तराण्यपि बहुत्रोपयुक्तानि प्रकरणेऽस्मिन् कथ्यन्ते –
१८ । वृद्धिरादैच् । (१-१-१)
‘आत्' इति तपरकरणं निर्देशसौकर्यार्थम् । ऐच प्रत्याहारः ।
आ, ऐ, औ एते प्रत्येकं वृद्धिसंज्ञकाः ।।
१९ । अदेङ् गुणः । (१-१-२)
‘अत्' इति ह्रस्वमात्रग्रहणाय निर्देशसौकर्याय च तपरो निर्देशः ।
अ, ए, ओ एते प्रत्येकं गुणसंज्ञकाः ॥
२० । हलोऽनन्तराः संयोगः । (१-१-७)
हलः स्वरै: कालेन वा अव्यवहिताः समुदिताः संयोगसंज्ञकाः ॥
यथा – स्त, श्व, क्ष, स्त्री, क्ष्म्या, त्र्न्य इत्यादयः ।
२१ । अचोऽन्त्यादि टि । (१-१-६४)
अचां मध्ये योऽन्त्यः स आदिर्यस्य स वर्ण: वर्णसमूहो वा टि-
संज्ञ: स्यात् । स्वरान्त्येषु शब्देष्वन्त्यस्वरः, व्यञ्जनान्तेष्वन्त्यव्यञ्जनं
स्वपूर्वस्वरमिलितं च टिसंज्ञमित्यर्थः । यथा—
टिः
शब्दः
हरि इत्यस्य
शब्दः
प्रत्यक् इत्यस्य
सरस्
अजागर्त,
ऊर्क्
२२ । अलोऽन्त्यात् पूर्व उपधा । (१-१-६५)
उपान्त्यो वर्ण उपधासंज्ञः । यथा-
गुरु
भोस् "
किम्

ओस्
इम्
टिः
अक्
अस्
अर्त्
ऊर्क्
-
हरि इत्यत्र रेफ उपधा । भोस् इत्यत्र ओकार इत्यादि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३४&oldid=347399" इत्यस्माद् प्रतिप्राप्तम्