एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४ लघुपाणिनीये [भावकृत्प्र आलुच् । (३-२-१५८) ११३६ । स्पृहिगृहिपतिदयिनिद्वातन्द्राश्रद्धाभ्य स्पृह्यादयस्त्रयश्चुरादयः । 'अयामन्ताल्वाय्येत्न्विष्णुषु' । स्पृहयालुरित्यादि । ११३७ । भञ्जभासमिदो घुरच् । (३-२-१६१) 'चजोः कु घिण्ण्यतोः' – भङ्गुरः इत्यादि । ११३८ । विदिभिदिच्छिदेः कुरच् । (३-२-१६२) विदुरः, भिदुरः, छिदुरः । दिच्छिद्योः कर्मकर्तर्येव प्रयोगः । १९३९ । सनाशंसभिक्ष उ: । (३-२-१६८) सन्नन्तेभ्य आशंसभिक्षतिभ्यां च उः । यथा— चिकीर्षुः, जिगीषुः, चिकित्सुः, आशंसु, भिक्षुः । ‘तच्छीलतद्धर्मतत्साधुकारिषु' इत्यधिकारो वृत्तः ॥ ११४० । जीतः क्तः । (३-२-१८७) (वर्तमाने) नीतो धातोर्वर्तमानकाले कर्तरि क्तः । यथा— ञि धृषा – धृष्टः । ञि स्विदा — स्विन्नः । - - ११४१ । मतिबुद्धिपूजार्थेभ्यश्च । (३-२-१८८) मतिरिच्छा । बुद्धिर्ज्ञानम् । पूजा सत्कारः । एभ्योऽपि वर्तमाने 1070 क्तः । यथा - सतां मतो विदितः पूजितो वा - सद्भिर्मन्यमानो वेद्यमानः पूज्यमानो वेत्यर्थः । भावकृत्प्रत्ययाः ॥ ११४२ । भावे । (३-३-१८) ११४३ । अकर्तरि च कारके संज्ञायाम् । (३-३-१९) अधिकारो विधिश्च सूत्रद्वयम् । इत ऊर्ध्वं भावे कर्तृभिन्नकारके च प्रत्ययाः । उभयत्रापि सिद्धावस्थापन्नैव क्रिया गृह्यते । सिद्धावस्था- इति माघः शुद्धे १. “प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयादुरयाचितमङ्गनाः” कर्तर्यपि प्रयुङ्क्ते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३४३&oldid=347937" इत्यस्माद् प्रतिप्राप्तम्